ततोऽन्यच्छिखरं गृह्य विपुलं द्रुमभूषितम्। वज्रदंष्ट्रस्य शिरसि पातयामास वानरः
अभवच्छोणितोद्गारी वज्रदंष्ट्रः सुमूर्च्छितः। मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन्
स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम्। जघान परमक्रुद्धो वक्षोदेशे निशाचरः
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमकुर्वत। अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ
रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ। बभूवतुः सुविक्रान्तावङ्गारकबुधाविव
ततः परमतेजस्वी अङ्गदः प्लवगर्षभः। उत्पाट्य वृक्षं स्थितवानासीत् पुष्पफलैर्युतः
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम्। किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम्
चित्रांश्च रुचिरान् मार्गांश्चेरतुः कपिराक्षसौ। जघ्नतुश्च तदान्योन्यं नर्दन्तौ जयकांक्षिणौ
व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ। युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः। उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः। जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा। तच्च तस्य परीताक्षं शुभं खड्गहतं शिरः
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः। त्रस्ता ह्यभ्यद्रवँल्लङ्कां वध्यमानाः प्लवङ्गमैः। विषण्णवदना दीना ह्रिया किंचिदवाङ्मुखाः
निहत्य तं वज्रधरः प्रतापवान् स वालिसूनुः कपिसैन्यमध्ये। जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः
thumb|पञ्चपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥६-
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः। बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम्
शीघ्रं निर्यान्तुदुर्धर्षा राक्षसा भीमविक्रमाः। अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम्
एष शास्ता च गोप्ता च नेता च युधि सत्तमः। भूतिकामश्च मे नित्यं नित्यं च समरप्रियः
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम्। वानरांश्चापरान् घोरान् हनिष्यति न संशयः
परिगृह्य स तामाज्ञां रावणस्य महाबलः। बलं सम्प्रेरयामास तदा लघुपराक्रमः
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः। निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः
रथमास्थाय विपुलं तप्तकाञ्चनभूषणम्। मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः
राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः। नहि कम्पयितुं शक्यः सुरैरपि महामृधे
अकम्पनस्ततस्तेषामादित्य इव तेजसा। तस्य निर्धावमानस्य संरब्धस्य युयुत्सया
अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम्। व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः
विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः। अभवत् सुदिने काले दुर्दिनं रूक्षमारुतम्
ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः। स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्। तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः
बभूव सुमहान् नादः क्षोभयन्निव सागरम्। तेन शब्देन वित्रस्ता वानराणां महाचमूः
द्रुमशैलप्रहाराणां योद्धुं समुपतिष्ठताम्। तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम्