वानराणां च शूरास्तु ते सर्वे प्लवगर्षभाः। अयुध्यन्त शिलाहस्ताः समवेताः समन्ततः
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम्। राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा
वानराश्चैव रक्षःसु गिरिवृक्षान् महाशिलाः। प्रवीराः पातयामासुर्मत्तवारणसंनिभाः
शूराणां युध्यमानानां समरेष्वनिवर्तिनाम्। तद् राक्षसगणानां च सुयुद्धं समवर्तत
प्रभिन्नशिरसः केचिच्छिन्नैः पादैश्च बाहुभिः। शस्त्रैरर्दितदेहास्तु रुधिरेण समुक्षिताः
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः। कङ्कगृध्रबलाढ्याश्च गोमायुकुलसंकुलाः
कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै। भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले
वानरा राक्षसाश्चापि निपेतुस्तत्र भूतले। ततो वानरसैन्येन हन्यमानं निशाचरम्
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः। राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवंगमैः
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान्। प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम्
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः। बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान्। त्रस्ताः सर्वे हरिगणाः शरैः संकृत्तदेहिनः। अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः
ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा। क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत
वज्रदंष्ट्रोऽङ्गदश्चोभौ योयुध्येते परस्परम्। चेरतुः परमक्रुद्धौ हरिमत्तगजाविव
ततः शतसहस्रेण हरिपुत्रं महाबलम्। जघान मर्मदेशेषु शरैरग्निशिखोपमैः
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः। चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः
दृष्ट्वा पतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः। चिच्छेद बहुधा सोऽपि मथितः प्रापतद् भुवि
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः। प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च
तमापतन्तं दृष्ट्वा स रथादाप्लुत्य वीर्यवान्। गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत
अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि। सचक्रकूबरं साश्वं प्रममाथ रथं तदा
ततोऽन्यच्छिखरं गृह्य विपुलं द्रुमभूषितम्। वज्रदंष्ट्रस्य शिरसि पातयामास वानरः
अभवच्छोणितोद्गारी वज्रदंष्ट्रः सुमूर्च्छितः। मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन्
स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम्। जघान परमक्रुद्धो वक्षोदेशे निशाचरः
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमकुर्वत। अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ
रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ। बभूवतुः सुविक्रान्तावङ्गारकबुधाविव
ततः परमतेजस्वी अङ्गदः प्लवगर्षभः। उत्पाट्य वृक्षं स्थितवानासीत् पुष्पफलैर्युतः
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम्। किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम्
चित्रांश्च रुचिरान् मार्गांश्चेरतुः कपिराक्षसौ। जघ्नतुश्च तदान्योन्यं नर्दन्तौ जयकांक्षिणौ
व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ। युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः। उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः