तांस्तु विद्रवतो दृष्ट्वा वानरा जितकाशिनः। प्रणेदुः सुमहानादान् दिशः शब्देन पूरयन्
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह। घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम्
निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः। रुधिरोक्षितसर्वाङ्गा न्यपतन् धरणीतले
केचिदन्योन्यमासाद्य शूराः परिघबाहवः। चिक्षिपुर्विविधान् शस्त्रान् समरेष्वनिवर्तिनः
द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः। श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः
रथनेमिस्वनस्तत्र धनुषश्चापि घोरवत्। शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः
केचिदस्त्राणि संत्यज्य बाहुयुद्धमकुर्वत
तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि। जानुभिश्च हताः केचिद् भग्नदेहाश्च राक्षसाः। शिलाभिश्चूर्णिताः केचिद् वानरैर्युद्धदुर्मदैः
वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन्। चचार लोकसंहारे पाशहस्त इवान्तकः
बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे। जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधर्मूच्छिताः
जघ्ने तान् राक्षसान् सर्वान् धृष्टो वालिसुतो रणे। क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः
तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान्। अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव
चकार कदनं घोरं शक्रतुल्यपराक्रमः। अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः
विभिन्नशिरसः पेतुर्निकृत्ता इव पादपाः। रथैश्चित्रैर्ध्वजैरश्वैः शरीरैर्हरिरक्षसाम्
रुधिरौघेण संछन्ना भूमिर्भयकरी तदा। हारकेयूरवस्त्रैश्च शस्त्रैश्च समलंकृता
भूमिर्भाति रणे तत्र शारदीव यथा निशा। अङ्गदस्य च वेगेन तद् राक्षसबलं महत्। प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा
thumb|चतुष्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुष्पञ्चाशः सर्गः ॥६-
स्वबलस्य च घातेन अङ्गदस्य बलेन च। राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः
विस्फार्य च धनुर्घोरं शक्राशनिसमप्रभम्। वानराणामनीकानि प्राकिरच्छरवृष्टिभिः
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः। नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे
वानराणां च शूरास्तु ते सर्वे प्लवगर्षभाः। अयुध्यन्त शिलाहस्ताः समवेताः समन्ततः
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम्। राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा
वानराश्चैव रक्षःसु गिरिवृक्षान् महाशिलाः। प्रवीराः पातयामासुर्मत्तवारणसंनिभाः
शूराणां युध्यमानानां समरेष्वनिवर्तिनाम्। तद् राक्षसगणानां च सुयुद्धं समवर्तत
प्रभिन्नशिरसः केचिच्छिन्नैः पादैश्च बाहुभिः। शस्त्रैरर्दितदेहास्तु रुधिरेण समुक्षिताः
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः। कङ्कगृध्रबलाढ्याश्च गोमायुकुलसंकुलाः
कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै। भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले
वानरा राक्षसाश्चापि निपेतुस्तत्र भूतले। ततो वानरसैन्येन हन्यमानं निशाचरम्
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः। राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवंगमैः
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान्। प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम्