धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत्। स विस्फारितसर्वाङ्गो गिरिशृङ्गेण ताडितः
पपात सहसा भूमौ विकीर्ण इव पर्वतः। धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः। त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः
स तु पवनसुतो निहत्य शत्रून् क्षतजवहाः सरितश्च संविकीर्य। रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिः सुपूज्यमानः
thumb|त्रिपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिपञ्चाशः सर्गः ॥६-
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः। क्रोधेन महताऽऽविष्टो निःश्वसन्नुरगो यथा
दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुषीकृतः। अब्रवीद् राक्षसं क्रूरं वज्रदंष्ट्रं महाबलम्
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः। जहि दाशरथिं रामं सुग्रीवं वानरैः सह
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः। निर्जगाम बलैः सार्धं बहुभिः परिवारितः
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः। पताकाध्वजचित्रैश्च बहुभिः समलंकृतः
ततो विचित्रकेयूरमुकुटेन विभूषितः। तनुत्रं स समावृत्य सधनुर्निर्ययौ द्रुतम्
पताकालंकृतं दीप्तं तप्तकाञ्चनभूषितम्। रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः
ऋष्टिभिस्तोमरैश्चित्रैः श्लक्ष्णैश्च मुसलैरपि। भिन्दिपालैश्च चापैश्च शक्तिभिः पट्टिशैरपि
खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः। पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः
विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः। गजा महोत्कटाः शूराश्चलन्त इव पर्वताः
ते युद्धकुशला रूढास्तोमराङ्कुशपाणिभिः। अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः
तद् राक्षसबलं सर्वं विप्रस्थितमशोभत। प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः
निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः। तेषां निष्क्रममाणानामशुभं समजायत
आकाशाद् विघनात् तीव्रा उल्काश्चाभ्यपतंस्तदा। वमन्तः पावकज्वालाः शिवा घोरा ववाशिरे
व्याहरन्त मृगा घोरा रक्षसां निधनं तदा। समापतन्तो योधास्तु प्रास्खलंस्तत्र दारुणम्
एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः। धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः
तांस्तु विद्रवतो दृष्ट्वा वानरा जितकाशिनः। प्रणेदुः सुमहानादान् दिशः शब्देन पूरयन्
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह। घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम्
निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः। रुधिरोक्षितसर्वाङ्गा न्यपतन् धरणीतले
केचिदन्योन्यमासाद्य शूराः परिघबाहवः। चिक्षिपुर्विविधान् शस्त्रान् समरेष्वनिवर्तिनः
द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः। श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः
रथनेमिस्वनस्तत्र धनुषश्चापि घोरवत्। शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः
केचिदस्त्राणि संत्यज्य बाहुयुद्धमकुर्वत
तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि। जानुभिश्च हताः केचिद् भग्नदेहाश्च राक्षसाः। शिलाभिश्चूर्णिताः केचिद् वानरैर्युद्धदुर्मदैः
वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन्। चचार लोकसंहारे पाशहस्त इवान्तकः
बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे। जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधर्मूच्छिताः