अन्ये तु परमक्रुद्धा राक्षसा भीमविक्रमाः। तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन्
वानरैः पातयन्तस्ते वेगिता वेगवत्तरैः। मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः। रोषेण कदनं चक्रे वानराणां युयुत्सताम्
प्रासैः प्रमथिताः केचिद् वानराः शोणितस्रवाः। मुद्गरैराहताः केचित् पतिता धरणीतले
परिघैर्मथिताः केचिद् भिन्दिपालैश्च दारिताः। पट्टिशैर्मथिताः केचिद् विह्वलन्तो गतासवः
केचिद् विनिहता भूमौ रुधिरार्द्रा वनौकसः। केचिद् विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि
विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः। विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः
तत् सुभीमं महद्युद्धं हरिराक्षससंकुलम्। प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम्
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्। मन्दस्तनितगीतं तद् युद्धगान्धर्वमाबभौ
धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि। हसन् विद्रावयामास दिशस्ताञ्छरवृष्टिभिः
धूम्राक्षेणार्दितं सैन्यं व्यथितं प्रेक्ष्य मारुतिः। अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम्
क्रोधाद् द्विगुणताम्राक्षः पितुस्तुल्यपराक्रमः। शिलां तां पातयामास धूम्राक्षस्य रथं प्रति
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात्। रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत
सा प्रमथ्य रथं तस्य निपपात शिला भुवि। सचक्रकूबरं साश्वं सध्वजं सशरासनम्
स भङ्क्त्वा तु रथं तस्य हनूमान् मारुतात्मजः। रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः
विभिन्नशिरसो भूत्वा राक्षसा रुधिरोक्षिताः। द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले
विद्राव्य राक्षसं सैन्यं हनूमान् मारुतात्मजः। गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान्। विनर्दमानः सहसा हनूमन्तमभिद्रवत्
तस्य क्रुद्धस्य रोषेण गदां तां बहुकण्टकाम्। पातयामास धूम्राक्षो मस्तकेऽथ हनूमतः
ताडितः स तया तत्र गदया भीमवेगया। स कपिर्मारुतबलस्तं प्रहारमचिन्तयन्
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत्। स विस्फारितसर्वाङ्गो गिरिशृङ्गेण ताडितः
पपात सहसा भूमौ विकीर्ण इव पर्वतः। धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः। त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः
स तु पवनसुतो निहत्य शत्रून् क्षतजवहाः सरितश्च संविकीर्य। रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिः सुपूज्यमानः
thumb|त्रिपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिपञ्चाशः सर्गः ॥६-
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः। क्रोधेन महताऽऽविष्टो निःश्वसन्नुरगो यथा
दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुषीकृतः। अब्रवीद् राक्षसं क्रूरं वज्रदंष्ट्रं महाबलम्
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः। जहि दाशरथिं रामं सुग्रीवं वानरैः सह
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः। निर्जगाम बलैः सार्धं बहुभिः परिवारितः
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः। पताकाध्वजचित्रैश्च बहुभिः समलंकृतः
ततो विचित्रकेयूरमुकुटेन विभूषितः। तनुत्रं स समावृत्य सधनुर्निर्ययौ द्रुतम्