विस्वरं चोत्सृजन्नादान् धूम्राक्षस्य निपातितः। ववर्ष रुधिरं देवः संचचाल च मेदिनी
प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः। तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे
स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान्। प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्। मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः
ततः सुभीमो बहुभिर्निशाचरै- र्वृतोऽभिनिष्क्रम्य रणोत्सुको बली। ददर्श तां राघवबाहुपालितां महौघकल्पां बहु वानरीं चमूम्
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विपञ्चाशः सर्गः ॥६-
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम्। विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः
तेषां सुतुमुलं युद्धं संजज्ञे कपिरक्षसाम्। अन्योन्यं पादपैर्घोरैर्निघ्नतां शूलमुद्गरैः
राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः। वानरै राक्षसाश्चापि द्रुमैर्भूमिसमीकृताः
राक्षसास्त्वभिसंक्रुद्धा वानरान् निशितैः शरैः। विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः
ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः। घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संश्रितैः
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः। अमर्षजनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत्
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः। जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः
ते भीमवेगा हरयो नर्दमानास्ततस्ततः। ममन्थू राक्षसान् वीरान् नामानि च बभाषिरे
तद् बभूवाद्भुतं घोरं युद्धं वानररक्षसाम्। शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः
राक्षसा मथिताः केचिद् वानरैर्जितकाशिभिः। प्रवेमू रुधिरं केचिन्मुखै रुधिरभोजनाः
पार्श्वेषु दारिताः केचित् केचिद् राशीकृता द्रुमैः। शिलाभिश्चूर्णिताः केचित् केचिद् दन्तैर्विदारिताः
ध्वजैर्विमथितैर्भग्नैः खड्गैश्च विनिपातितैः। रथैर्विध्वंसितैः केचिद् व्यथिता रजनीचराः
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम्। मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम्
वानरैर्भीमविक्रान्तैराप्लुत्योत्प्लुत्य वेगितैः। राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिदारिताः
विषण्णवदना भूयो विप्रकीर्णशिरोरुहाः। मूढाः शोणितगन्धेन निपेतुर्धरणीतले
अन्ये तु परमक्रुद्धा राक्षसा भीमविक्रमाः। तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन्
वानरैः पातयन्तस्ते वेगिता वेगवत्तरैः। मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः। रोषेण कदनं चक्रे वानराणां युयुत्सताम्
प्रासैः प्रमथिताः केचिद् वानराः शोणितस्रवाः। मुद्गरैराहताः केचित् पतिता धरणीतले
परिघैर्मथिताः केचिद् भिन्दिपालैश्च दारिताः। पट्टिशैर्मथिताः केचिद् विह्वलन्तो गतासवः
केचिद् विनिहता भूमौ रुधिरार्द्रा वनौकसः। केचिद् विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि
विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः। विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः
तत् सुभीमं महद्युद्धं हरिराक्षससंकुलम्। प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम्
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्। मन्दस्तनितगीतं तद् युद्धगान्धर्वमाबभौ
धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि। हसन् विद्रावयामास दिशस्ताञ्छरवृष्टिभिः