विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे। पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः। चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत्
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः। अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम। संशयस्थमिदं सर्वमनुपश्याम्यहं बलम्
निष्फलाः खलु संवृत्ताः शराः पावकतेजसः। आदत्तं यैस्तु संग्रामे रिपूणां जीवितं मम
एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा। अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राक्षसम्
बलेन महता युक्तो रक्षसां भीमविक्रम। त्वं वधायाशु निर्याहि रामस्य सह वानरैः
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता। परिक्रम्य ततः शीघ्रं निर्जगाम नृपालयात्
अभिनिष्क्रम्य तद् द्वारं बलाध्यक्षमुवाच ह। त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः। बलमुद्योजयामास रावणस्याज्ञया भृशम्
ते बद्धघण्टा बलिनो घोररूपा निशाचराः। विनद्यमानाः संहृष्टा धूम्राक्षं पर्यवारयन्
विविधायुधहस्ताश्च शूलमुद्गरपाणयः। गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैरपि
परिघैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः। निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः। सुवर्णजालविहितैः खरैश्च विविधाननैः
हयैः परमशीघ्रैश्च गजैश्चैव मदोत्कटैः। निर्ययुर्नैर्ऋतव्याघ्रा व्याघ्रा इव दुरासदाः
वृकसिंहमुखैर्युक्तं खरैः कनकभूषितैः। आरुरोह रथं दिव्यं धूम्राक्षः खरनिःस्वनः
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः। हसन् वै पश्चिमद्वाराद्धनूमान् यत्र तिष्ठति
रथप्रवरमास्थाय खरयुक्तं खरस्वनम्। प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन्। रथशीर्षे महाभीमो गृध्रश्च निपपात ह
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः। रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि
विस्वरं चोत्सृजन्नादान् धूम्राक्षस्य निपातितः। ववर्ष रुधिरं देवः संचचाल च मेदिनी
प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः। तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे
स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान्। प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्। मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः
ततः सुभीमो बहुभिर्निशाचरै- र्वृतोऽभिनिष्क्रम्य रणोत्सुको बली। ददर्श तां राघवबाहुपालितां महौघकल्पां बहु वानरीं चमूम्
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विपञ्चाशः सर्गः ॥६-
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम्। विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः
तेषां सुतुमुलं युद्धं संजज्ञे कपिरक्षसाम्। अन्योन्यं पादपैर्घोरैर्निघ्नतां शूलमुद्गरैः
राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः। वानरै राक्षसाश्चापि द्रुमैर्भूमिसमीकृताः
राक्षसास्त्वभिसंक्रुद्धा वानरान् निशितैः शरैः। विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः
ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः। घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संश्रितैः