इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः। रामं च नीरुजं कृत्वा मध्ये तेषां वनौकसाम्
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्। जगामाकाशमाविश्य सुपर्णः पवनो यथा
नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः। सिंहनादं तदा नेदुर्लाङ्गूलं दुधुवुश्च ते
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यवादयन्। दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम्
अपरे स्फोट्य विक्रान्ता वानरा नगयोधिनः। द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्। लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः
तेषां सुभीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम्। क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे
thumb|एकपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकपञ्चाशः सर्गः ॥६-
तेषां तु तुमुलं शब्दं वानराणां महौजसाम्। नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः
स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम्। सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्
यथासौ सम्प्रहृष्टानां वानराणामुपस्थितः। बहूनां सुमहान् नादो मेघानामिव गर्जताम्
सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः। तथाहि विपुलैर्नादैश्चुक्षुभे लवणार्णवः
तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ। अयं च सुमहान् नादः शङ्कां जनयतीव मे
एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः। उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः
ज्ञायतां तूर्णमेतेषां सर्वेषां च वनौकसाम्। शोककाले समुत्पन्ने हर्षकारणमुत्थितम्
तथोक्तास्ते सुसम्भ्रान्ताः प्राकारमधिरुह्य च। ददृशुः पालितां सेनां सुग्रीवेण महात्मना
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ। समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः
संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते। विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः
तदप्रियं दीनमुखा रावणस्य च राक्षसाः। कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ। निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ
विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे। पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः। चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत्
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः। अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम। संशयस्थमिदं सर्वमनुपश्याम्यहं बलम्
निष्फलाः खलु संवृत्ताः शराः पावकतेजसः। आदत्तं यैस्तु संग्रामे रिपूणां जीवितं मम
एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा। अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राक्षसम्
बलेन महता युक्तो रक्षसां भीमविक्रम। त्वं वधायाशु निर्याहि रामस्य सह वानरैः
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता। परिक्रम्य ततः शीघ्रं निर्जगाम नृपालयात्
अभिनिष्क्रम्य तद् द्वारं बलाध्यक्षमुवाच ह। त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः। बलमुद्योजयामास रावणस्याज्ञया भृशम्