नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्। मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा
एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः। रक्षोमायाप्रभावेण शरभूतास्त्वदाश्रयाः
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः। सहसैवावयोः स्नेहात् सखित्वमनुपालयन्
मोक्षितौ च महाघोरादस्मात् सायकबन्धनात्। अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि
प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः। शूराणां शुद्धभावानां भवतामार्जवं बलम्
तन्न विश्वसनीयं वो राक्षसानां रणाजिरे। एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः
एवमुक्त्वा तदा रामं सुपर्णः स महाबलः। परिष्वज्य च सुस्निग्धमाप्रष्टुमुपचक्रमे
सखे राघव धर्मज्ञ रिपूणामपि वत्सल। अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम्
न च कौतूहलं कार्यं सखित्वं प्रति राघव। कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः। रावणं तु रिपुं हत्वा सीतां त्वमुपलप्स्यसे
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः। रामं च नीरुजं कृत्वा मध्ये तेषां वनौकसाम्
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्। जगामाकाशमाविश्य सुपर्णः पवनो यथा
नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः। सिंहनादं तदा नेदुर्लाङ्गूलं दुधुवुश्च ते
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यवादयन्। दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम्
अपरे स्फोट्य विक्रान्ता वानरा नगयोधिनः। द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्। लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः
तेषां सुभीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम्। क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे
thumb|एकपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकपञ्चाशः सर्गः ॥६-
तेषां तु तुमुलं शब्दं वानराणां महौजसाम्। नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः
स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम्। सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्
यथासौ सम्प्रहृष्टानां वानराणामुपस्थितः। बहूनां सुमहान् नादो मेघानामिव गर्जताम्
सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः। तथाहि विपुलैर्नादैश्चुक्षुभे लवणार्णवः
तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ। अयं च सुमहान् नादः शङ्कां जनयतीव मे
एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः। उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः
ज्ञायतां तूर्णमेतेषां सर्वेषां च वनौकसाम्। शोककाले समुत्पन्ने हर्षकारणमुत्थितम्
तथोक्तास्ते सुसम्भ्रान्ताः प्राकारमधिरुह्य च। ददृशुः पालितां सेनां सुग्रीवेण महात्मना
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ। समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः
संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते। विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः
तदप्रियं दीनमुखा रावणस्य च राक्षसाः। कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ। निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ