ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया। ताविमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः। प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः
एवं विलपमानं तं परिष्वज्य विभीषणम्। सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम्
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः। रावणः सह पुत्रेण स्वकामं नेह लप्स्यते
गरुडाधिष्ठितावेतावुभौ राघवलक्ष्मणौ। त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे
तमेवं सान्त्वयित्वा तु समाश्वास्य तु राक्षसम्। सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ। गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्। मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्
श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्। देवासुरं महायुद्धमनुभूतं पुरातनम्
तदा स्म दानवा देवान् शरसंस्पर्शकोविदान्। निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः
तानार्तान् नष्टसंज्ञांश्च गतासूंश्च बृहस्पतिः। विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्। जवेन वानराः शीघ्रं सम्पातिपनसादयः
हरयस्तु विजानन्ति पार्वती ते महौषधी। संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्
चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे। अमृतं यत्र मथितं तत्र ते परमौषधी
तौ तत्र विहितौ देवैः पर्वतौ तौ महोदधौ। अयं वायुसुतो राजन् हनूमांस्तत्र गच्छतु
एतस्मिन्नन्तरे वायुर्मेघाश्चापि सविद्युतः। पर्यस्य सागरे तोयं कम्पयन्निव पर्वतान्
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः। निपेतुर्भग्नविटपाः सलिले लवणाम्भसि
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः। शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्
ततो मुहूर्ताद् गरुडं वैनतेयं महाबलम्। वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम्
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः। यैस्तु तौ पुरुषौ बद्धौ शरभूतैर्महाबलैः
ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च। विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः। सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः। प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणा तयोः
तावुत्थाप्य महातेजा गरुडो वासवोपमौ। उभौ च सस्वजे हृष्टो रामश्चैनमुवाच ह
भवत्प्रसादाद् व्यसनं रावणिप्रभवं महत्। उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ
यथा तातं दशरथं यथाजं च पितामहम्। तथा भवन्तमासाद्य हृदयं मे प्रसीदति
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः। वसानो विरजे वस्त्रे दिव्याभरणभूषितः
तमुवाच महातेजा वैनतेयो महाबलः। पतत्त्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणम्
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः। गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात्
असुरा वा महावीर्या दानवा वा महाबलाः। सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्