न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलान्मत्तो महाबलः
नहि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः। बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च
इयमक्षौहिणी पूर्णा गजवाजिरथाकुला। हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्। वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम्
न बलं क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः। ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम्
अप्रमेयं बलं तुभ्यं न त्वया बलवत्तरः। विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्
नियुङ्क्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम्। तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः
इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः। सृजस्वेति तदोवाच बलं परबलार्दनम्
तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा। तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः। स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः
पह्लवान् नाशयामास शस्त्रैरुच्चावचैरपि। विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा
भूय एवासृजद् घोरान् शकान् यवनमिश्रितान्। तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः
प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसंनिभैः। तीक्ष्णासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः। ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह। तैस्ते यवनकाम्बोजा बर्बराश्चाकुलीकृताः
thumb|पञ्चपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१-
ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्। वसिष्ठश्चोदयामास कामधुक् सृज योगतः
तस्या हुंकारतो जाताः काम्बोजा रविसंनिभाः। ऊधसश्चाथ सम्भूता बर्बराः शस्त्रपाणयः
योनिदेशाच्च यवनाः शकृद्देशाच्छकाः स्मृताः। रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः
तैस्तन्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात्। सपदातिगजं साश्वं सरथं रघुनन्दन
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना। विश्वामित्रसुतानां तु शतं नानाविधायुधम्
अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम्। हुंकारेणैव तान् सर्वान् निर्ददाह महानृषिः
ते साश्वरथपादाता वसिष्ठेन महात्मना। भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा
दृष्ट्वा विनाशितान् सर्वान् बलं च सुमहायशाः। सव्रीडं चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा
समुद्र इव निर्वेगो भग्नद्रंष्ट्र इवोरगः। उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः। हतसर्वबलोत्साहो निर्वेदं समपद्यत
स पुत्रमेकं राज्याय पालयेति नियुज्य च। पृथिवीं क्षत्रधर्मेण वनमेवाभ्यपद्यत
स गत्वा हिमवत्पार्श्वे किंनरोरगसेवितम्। महादेवप्रसादार्थं तपस्तेपे महातपाः
केनचित् त्वथ कालेन देवेशो वृषभध्वजः। दर्शयामास वरदो विश्वामित्रं महामुनिम्
किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्। वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम्
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः। प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम्