तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम्। वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥६-
thumb|पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चाशः सर्गः ॥६-
अथोवाच महातेजा हरिराजो महाबलः। किमियं व्यथिता सेना मूढवातेव नौर्जले
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्। न त्वं पश्यसि रामं च लक्ष्मणं च महारथम्
शरजालाचितौ वीरावुभौ दशरथात्मजौ। शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ
अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्। नानिमित्तमिदं मन्ये भवितव्यं भयेन तु
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः। पलायन्तेऽत्र हरयस्त्रासादुत्फुल्ललोचनाः
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः। विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः। सुग्रीवं वर्धयामास राघवं च जयाशिषा
विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम्। ऋक्षराजं महात्मानं समीपस्थमुवाच ह
विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः। द्रवन्त्यायतसंत्रासा रावणात्मजशङ्कया
शीघ्रमेतान् सुसंत्रस्तान् बहुधा विप्रधावितान्। पर्यवस्थापयाख्याहि विभीषणमुपस्थितम्
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः। वानरान् सान्त्वयामास संनिवर्त्य प्रधावतः
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसाध्वसाः। ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम्
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्। लक्ष्मणस्य तु धर्मात्मा बभूव व्यथितस्तदा
जलक्लिन्नेन हस्तेन तयोर्नेत्रे विमृज्य च। शोकसम्पीडितमना रुरोद विललाप च
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ। इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः
भ्रातृपुत्रेण चैतेन दुष्पुत्रेण दुरात्मना। राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ। वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया। ताविमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः। प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः
एवं विलपमानं तं परिष्वज्य विभीषणम्। सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम्
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः। रावणः सह पुत्रेण स्वकामं नेह लप्स्यते
गरुडाधिष्ठितावेतावुभौ राघवलक्ष्मणौ। त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे
तमेवं सान्त्वयित्वा तु समाश्वास्य तु राक्षसम्। सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ। गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्। मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्
श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्। देवासुरं महायुद्धमनुभूतं पुरातनम्
तदा स्म दानवा देवान् शरसंस्पर्शकोविदान्। निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः