त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण। गतासुर्नाद्य शक्तोऽसि मामार्तमभिभाषितुम्
येनाद्य बहवो युद्धे निहता राक्षसाः क्षितौ। तस्यामेवाद्य शूरस्त्वं शेषे विनिहतः शनैः
शयानः शरतल्पेऽस्मिन् सशोणितपरिस्रुतः। शरभूतस्ततो भासि भास्करोऽस्तमिव व्रजन्
बाणाभिहतमर्मत्वान्न शक्नोषीह भाषितुम्। रुजा चाब्रुवतो यस्य दृष्टिरागेण सूच्यते
यथैव मां वनं यान्तमनुयातो महाद्युतिः। अहमप्यनुयास्यामि तथैवैनं यमक्षयम्
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः। इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः
सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे। परुषं विप्रियं चापि श्रावितं तु कदाचन
विससर्जैकवेगेन पञ्चबाणशतानि यः। इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः। सोऽयमुर्व्यां हतः शेते महार्हशयनोचितः
तत्तु मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः। यन्मया न कृतो राजा राक्षसानां विभीषणः
अस्मिन् मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि। मत्वा हीनं मया राजन् रावणोऽभिभविष्यति
अङ्गदं तु पुरस्कृत्य ससैन्यं सपरिच्छदम्। सागरं तर सुग्रीव नीलेन च नलेन च
कृतं हि सुमहत्कर्म यदन्यैर्दुष्करं रणे। ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च। युद्धं केसरिणा संख्ये घोरं सम्पातिना कृतम्
गवयेन गवाक्षेण शरभेण गजेन च। अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः। यत्तु शक्यं वयस्येन सुहृदा वा परं मम
कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा। मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ। शुश्रुवुस्तस्य ये सर्वे वानराः परिदेवितम्
वर्तयांचक्रिरेऽश्रूणि नेत्रैः कृष्णेतरेक्षणाः
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः। आजगाम गदापाणिस्त्वरितं यत्र राघवः
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम्। वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥६-
thumb|पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चाशः सर्गः ॥६-
अथोवाच महातेजा हरिराजो महाबलः। किमियं व्यथिता सेना मूढवातेव नौर्जले
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्। न त्वं पश्यसि रामं च लक्ष्मणं च महारथम्
शरजालाचितौ वीरावुभौ दशरथात्मजौ। शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ
अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्। नानिमित्तमिदं मन्ये भवितव्यं भयेन तु
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः। पलायन्तेऽत्र हरयस्त्रासादुत्फुल्ललोचनाः
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः। विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः। सुग्रीवं वर्धयामास राघवं च जयाशिषा