सा तु चिन्तयते नित्यं समाप्तव्रतमागतम्। कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम्
परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्। मा विषादं कृथा देवि भर्तायं तव जीवति
कारणनि च वक्ष्यामि महान्ति सदृशानि च। यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ
नहि कोपपरीतानि हर्षपर्युत्सुकानि च। भवन्ति युधि योधानां मुखानि निहते पतौ
इदं विमानं वैदेहि पुष्पकं नाम नामतः। दिव्यं त्वां धारयेन् नेदं यद्येतौ गतजीवितौ
हतवीरप्रधाना हि गतोत्साहा निरुद्यमा। सेना भ्रमति संख्येषु हतकर्णेव नौर्जले
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तपस्विनि। सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः। अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते
अनृतं नोक्तपूर्वं मे न च वक्ष्यामि मैथिलि। चारित्रसुखशीलत्वात् प्रविष्टासि मनो मम
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः। तादृशं दर्शनं दृष्ट्वा मया चोदीरितं तव
इदं तु सुमहच्चित्रं शरैः पश्यस्व मैथिलि। विसंज्ञौ पतितावेतौ नैव लक्ष्मीर्विमुञ्चति
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्। दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्
त्यज शोकं च दुःखं च मोहं च जनकात्मजे। रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम्
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा। कृताञ्जलिरुवाचेमामेवमस्त्विति मैथिली
विमानं पुष्पकं तत्तु संनिवर्त्य मनोजवम्। दीना त्रिजटया सीता लङ्कामेव प्रवेशिता
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा। अशोकवनिकामेव राक्षसीभिः प्रवेशिता
प्रविश्य सीता बहुवृक्षखण्डां तां राक्षसेन्द्रस्य विहारभूमिम्। सम्प्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम
thumb|नवचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥६-
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ। निःश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ
सर्वे ते वानरश्रेष्ठाः ससुग्रीवमहाबलाः। परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान्। स्थिरत्वात् सत्त्वयोगाच्च शरैः संदानितोऽपि सन्
ततो दृष्ट्वा सरुधिरं निषण्णं गाढमर्पितम्। भ्रातरं दीनवदनं पर्यदेवयदातुरः
किं नु मे सीतया कार्यं लब्धया जीवितेन वा। शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम्
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता। न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः
परित्यक्ष्याम्यहं प्राणान् वानराणां तु पश्यताम्। यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्। कथमम्बां सुमित्रां च पुत्रदर्शनलालसाम्
विवत्सां वेपमानां च वेपन्तीं कुररीमिव। कथमाश्वासयिष्यामि यदि यास्यामि तं विना
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम्। मया सह वनं यातो विना तेनाहमागतः
उपालम्भं न शक्ष्यामि सोढुमम्बासुमित्रया। इहैव देहं त्यक्ष्यामि नहि जीवितुमुत्सहे
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ। लक्ष्मणः पतितः शेते शरतल्पे गतासुवत्