विमानेनापि गत्वा तु सीता त्रिजटया सह। ददर्श वानराणां तु सर्वं सैन्यं निपातितम्
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान्। वानरांश्चातिदुःखार्तान् रामलक्ष्मणपार्श्वतः
ततः सीता ददर्शोभौ शयानौ शरतल्पगौ। लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ। सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ
तौ दृष्ट्वा भ्रातरौ तत्र प्रवीरौ पुरुषर्षभौ। शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ। दुःखार्ता करुणं सीता सुभृशं विललाप ह
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा। प्रेक्ष्य पांसुषु चेष्टन्तौ रुरोद जनकात्मजा
सबाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसुतप्रभावौ। वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः
thumb|अष्टचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्। विललाप भृशं सीता करुणं शोककर्शिता
ऊचुर्लाक्षणिका ये मां पुत्रिण्यविधवेति च। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
वीरपार्थिवपत्नीनां ये विदुर्भर्तृपूजिताम्। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
इमानि खलु पद्मानि पादयोर्वै कुलस्त्रियः। आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह
वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः। नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः। तान्यद्य निहते रामे वितथानि भवन्ति मे
केशाः सूक्ष्माः समा नीला भ्रुवौ चासंहते मम। वृत्ते चारोमके जङ्घे दन्ताश्चाविरला मम
शङ्खे नेत्रे करौ पादौ गुल्फावूरू समौ चितौ। अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम
स्तनौ चाविरलौ पीनौ मामकौ मग्नचूचुकौ। मग्ना चोत्सेधनी नाभिः पार्श्वोरस्कं च मे चितम्
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च। प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम्
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत्। मन्दस्मितेत्येव च मां कन्यालाक्षणिका विदुः
आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह। कृतान्तकुशलैरुक्तं तत् सर्वं वितथीकृतम्
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च। तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च। अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यत
अदृश्यमानेन रणे मायया वासवोपमौ। मम नाथावनाथाया निहतौ रामलक्ष्मणौ
नहि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः। जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः
न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः। यत्र रामः सह भ्रात्रा शेते युधि निपातितः
न शोचामि तथा रामं लक्ष्मणं च महारथम्। नात्मानं जननीं चापि यथा श्वश्रूं तपस्विनीम्