हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ। पुष्पकं तत्समारोप्य दर्शयध्वं रणे हतौ
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठते। सोऽस्या भर्ता सह भ्रात्रा निहतो रणमूर्धनि
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली। मामुपस्थास्यते सीता सर्वाभरणभूषिता
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम्। अवेक्ष्य विनिवृत्ता सा चान्यां गतिमपश्यती
अनपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम्। तस्य तद् वचनं श्रुत्वा रावणस्य दुरात्मनः
राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम्। ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया
अशोकवनिकास्थां तां मैथिलीं समुपानयन्। तामादाय तु राक्षस्यो भर्तृशोकपराजिताम्
सीतामारोपयामासुर्विमानं पुष्पकं तदा। ततः पुष्पकमारोप्य सीतां त्रिजटया सह
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ। रावणश्चारयामास पताकाध्वजमालिनीम्
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः। राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे
विमानेनापि गत्वा तु सीता त्रिजटया सह। ददर्श वानराणां तु सर्वं सैन्यं निपातितम्
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान्। वानरांश्चातिदुःखार्तान् रामलक्ष्मणपार्श्वतः
ततः सीता ददर्शोभौ शयानौ शरतल्पगौ। लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ। सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ
तौ दृष्ट्वा भ्रातरौ तत्र प्रवीरौ पुरुषर्षभौ। शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ। दुःखार्ता करुणं सीता सुभृशं विललाप ह
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा। प्रेक्ष्य पांसुषु चेष्टन्तौ रुरोद जनकात्मजा
सबाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसुतप्रभावौ। वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः
thumb|अष्टचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्। विललाप भृशं सीता करुणं शोककर्शिता
ऊचुर्लाक्षणिका ये मां पुत्रिण्यविधवेति च। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
वीरपार्थिवपत्नीनां ये विदुर्भर्तृपूजिताम्। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्। तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
इमानि खलु पद्मानि पादयोर्वै कुलस्त्रियः। आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह
वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः। नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः। तान्यद्य निहते रामे वितथानि भवन्ति मे
केशाः सूक्ष्माः समा नीला भ्रुवौ चासंहते मम। वृत्ते चारोमके जङ्घे दन्ताश्चाविरला मम
शङ्खे नेत्रे करौ पादौ गुल्फावूरू समौ चितौ। अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम