न कालः कपिराजेन्द्र वैक्लव्यमवलम्बितुम्। अतिस्नेहोऽपि कालेऽस्मिन् मरणायोपकल्पते
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्। हितं रामपुरोगाणां सैन्यानामनुचिन्तय
अथ वा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः। लब्धसंज्ञौ हि काकुत्स्थौ भयं नौ व्यपनेष्यतः
नैतत् किंचन रामस्य न च रामो मुमूर्षति। नह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम्
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्। यावत् सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम्
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः। कर्णे कर्णे प्रकथिता हरयो हरिसत्तम
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितम्। त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम्
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः। विद्रुतं वानरानीकं तत् समाश्वासयत् पुनः
इन्द्रजित् तु महामायः सर्वसैन्यसमावृतः। विवेश नगरीं लङ्कां पितरं चाभ्युपागमत्
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे। रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ
उपाघ्राय च तं मूर्ध्नि पप्रच्छ प्रीतमानसः। पृच्छते च यथावृत्तं पित्रे तस्मै न्यवेदयत्
यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ
स हर्षवेगानुगतान्तरात्मा श्रुत्वा गिरं तस्य महारथस्य। जहौ ज्वरं दाशरथेः समुत्थं प्रहृष्टवाचाभिननन्द पुत्रम्
thumb|सप्तचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तचत्वारिंशः सर्गः ॥६-
तस्मिन् प्रविष्टे लङ्कायां कृतार्थे रावणात्मजे। राघवं परिवार्याथ ररक्षुर्वानरर्षभाः
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः। गजो गवाक्षो गवयः शरभो गन्धमादनः
जाम्बवानृषभः स्कन्धो रम्भः शतबलिः पृथुः। व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः। तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम्। आजुहाव ततः सीतारक्षणी राक्षसीस्तदा
राक्षस्यस्त्रिजटा चापि शासनात् तमुपस्थिताः। ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः
हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ। पुष्पकं तत्समारोप्य दर्शयध्वं रणे हतौ
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठते। सोऽस्या भर्ता सह भ्रात्रा निहतो रणमूर्धनि
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली। मामुपस्थास्यते सीता सर्वाभरणभूषिता
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम्। अवेक्ष्य विनिवृत्ता सा चान्यां गतिमपश्यती
अनपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम्। तस्य तद् वचनं श्रुत्वा रावणस्य दुरात्मनः
राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम्। ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया
अशोकवनिकास्थां तां मैथिलीं समुपानयन्। तामादाय तु राक्षस्यो भर्तृशोकपराजिताम्
सीतामारोपयामासुर्विमानं पुष्पकं तदा। ततः पुष्पकमारोप्य सीतां त्रिजटया सह
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ। रावणश्चारयामास पताकाध्वजमालिनीम्
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः। राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे