निष्पन्दौ तु तदा दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः। प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैर्ऋतान्
रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते। सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत्
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः। सबाष्पवदनं दीनं शोकव्याकुललोचनम्
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्। एवंप्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः
सभाग्यशेषतास्माकं यदि वीर भविष्यति। मोहमेतौ प्रहास्येते महात्मानौ महाबलौ
पर्यवस्थापयात्मानमनाथं मां च वानर। सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम्
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना। सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः
ततः सलिलमादाय विद्यया परिजप्य च। सुग्रीवनेत्रे धर्मात्मा प्रममार्ज विभीषणः
विमृज्य वदनं तस्य कपिराजस्य धीमतः। अब्रवीत् कालसम्प्राप्तमसम्भ्रान्तमिदं वचः
न कालः कपिराजेन्द्र वैक्लव्यमवलम्बितुम्। अतिस्नेहोऽपि कालेऽस्मिन् मरणायोपकल्पते
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्। हितं रामपुरोगाणां सैन्यानामनुचिन्तय
अथ वा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः। लब्धसंज्ञौ हि काकुत्स्थौ भयं नौ व्यपनेष्यतः
नैतत् किंचन रामस्य न च रामो मुमूर्षति। नह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम्
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्। यावत् सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम्
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः। कर्णे कर्णे प्रकथिता हरयो हरिसत्तम
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितम्। त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम्
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः। विद्रुतं वानरानीकं तत् समाश्वासयत् पुनः
इन्द्रजित् तु महामायः सर्वसैन्यसमावृतः। विवेश नगरीं लङ्कां पितरं चाभ्युपागमत्
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे। रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ
उपाघ्राय च तं मूर्ध्नि पप्रच्छ प्रीतमानसः। पृच्छते च यथावृत्तं पित्रे तस्मै न्यवेदयत्
यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ
स हर्षवेगानुगतान्तरात्मा श्रुत्वा गिरं तस्य महारथस्य। जहौ ज्वरं दाशरथेः समुत्थं प्रहृष्टवाचाभिननन्द पुत्रम्
thumb|सप्तचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तचत्वारिंशः सर्गः ॥६-
तस्मिन् प्रविष्टे लङ्कायां कृतार्थे रावणात्मजे। राघवं परिवार्याथ ररक्षुर्वानरर्षभाः
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः। गजो गवाक्षो गवयः शरभो गन्धमादनः
जाम्बवानृषभः स्कन्धो रम्भः शतबलिः पृथुः। व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः। तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम्। आजुहाव ततः सीतारक्षणी राक्षसीस्तदा
राक्षस्यस्त्रिजटा चापि शासनात् तमुपस्थिताः। ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः