बद्धौ तु तौ वीरशये शयानौ ते वानराः सम्परिवार्य तस्थुः। समागता वायुसुतप्रमुख्या विषादमार्ताः परमं च जग्मुः
thumb|षट्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्चत्वारिंशः सर्गः ॥६-
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः। ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे। आजगामाथ तं देशं ससुग्रीवो विभीषणः
नीलश्च द्विविदो मैन्दः सुषेणः कुमुदोऽङ्गदः। तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ
अचेष्टौ मन्दनिःश्वासौ शोणितेन परिप्लुतौ। शरजालाचितौ स्तब्धौ शयानौ शरतल्पगौ
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ। रुधिरस्रावदिग्धाङ्गौ तपनीयाविव ध्वजौ
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ। यूथपैः स्वैः परिवृतौ बाष्पव्याकुललोचनैः
राघवौ पतितौ दृष्ट्वा शरजालसमन्वितौ। बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः। न चैनं मायया छन्नं ददृशू रावणिं रणे
तं तु मायाप्रतिच्छन्नं माययैव विभीषणः। वीक्षमाणो ददर्शाग्रे भ्रातुः पुत्रमवस्थितम्। तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे
ददर्शान्तर्हितं वीरं वरदानाद् विभीषणः। तेजसा यशसा चैव विक्रमेण च संयुतः
इन्द्रजित् त्वात्मनः कर्म तौ शयानौ समीक्ष्य च। उवाच परमप्रीतो हर्षयन् सर्वराक्षसान्
दूषणस्य च हन्तारौ खरस्य च महाबलौ। सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात्। सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम। अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला। सोऽयं मूलहरोऽनर्थः सर्वेषां शमितो मया
रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम्। विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपश्यतः। यूथपानपि तान् सर्वांस्ताडयत् स च रावणिः
नीलं नवभिराहत्य मैन्दं सद्विविदं तथा। त्रिभिस्त्रिभिरमित्रघ्नस्तताप परमेषुभिः
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि। हनूमतो वेगवतो विससर्ज शरान् दश
गवाक्षं शरभं चैव तावप्यमितविक्रमौ। द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम्। विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः। ननाद बलवांस्तत्र महासत्त्वः स रावणिः
तानर्दयित्वा बाणौघैस्त्रसयित्वा च वानरान्। प्रजहास महाबाहुर्वचनं चेदमब्रवीत्
शरबन्धेन घोरेण मया बद्धौ चमूमुखे। सहितौ भ्रातरावेतौ निशामयत राक्षसाः
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः। परं विस्मयमापन्नाः कर्मणा तेन हर्षिताः
विनेदुश्च महानादान् सर्वे ते जलदोपमाः। हतो राम इति ज्ञात्वा रावणिं समपूजयन्
निष्पन्दौ तु तदा दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः। प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैर्ऋतान्