अदृश्यः सर्वभूतानां कूटयोधी निशाचरः। बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः। सहसाभिहतौ वीरौ तदा प्रेक्षन्त वानराः
प्रकाशरूपस्तु यदा न शक्त- स्तौ बाधितुं राक्षसराजपुत्रः। मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ दुरात्मा
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुश्चत्वारिंशः सर्गः
thumb|पञ्चचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चचत्वारिंशः सर्गः ॥६-
स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान्। दिदेशातिबलो रामो दश वानरयूथपान्
द्वौ सुषेणस्य दायादौ नीलं च प्लवगाधिपम्। अङ्गदं वालिपुत्रं च शरभं च तरस्विनम्
द्विविदं च हनूमन्तं सानुप्रस्थं महाबलम्। ऋषभं चर्षभस्कन्धमादिदेश परंतपः
ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान्। आकाशं विविशुः सर्वे मार्गमाणा दिशो दश
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः। अस्त्रवित् परमास्त्रस्तु वारयामास रावणिः
तं भीमवेगा हरयो नाराचैः क्षतविक्षताः। अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम्
रामलक्ष्मणयोरेव सर्वदेहभिदः शरान्। भृशमावेशयामास रावणिः समितिंजयः
निरन्तरशरीरौ तु तावुभौ रामलक्ष्मणौ। क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु। तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः। रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत्
युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः। द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम्
प्रापिताविषुजालेन राघवौ कङ्कपत्रिणा। एष रोषपरीतात्मा नयामि यमसादनम्
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ। निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः। भूय एव शरान् घोरान् विससर्ज महामृधे
ततो मर्मसु मर्मज्ञो मज्जयन् निशितान् शरान्। रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि। निमेषान्तरमात्रेण न शेकतुरवेक्षितुम्
ततो विभिन्नसर्वाङ्गौ शरशल्याचितौ कृतौ। ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ
तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ। निपेततुर्महेष्वासौ जगत्यां जगतीपती
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ। शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ
नह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम्। नानिर्विण्णं न चाध्वस्तमाकराग्रादजिह्मगैः
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा। असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः। क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः
रुक्मपुङ्खैः प्रसन्नाग्रै रजोगतिभिराशुगैः। नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि। विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा
स वीरशयने शिश्येऽविज्यमाविध्य कार्मुकम्। भिन्नमुष्टिपरीणाहं त्रिनतं रुक्मभूषितम्
बाणपातान्तरे रामं पतितं पुरुषर्षभम्। स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत्