गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः। सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान्
अङ्गदस्तु रणे शत्रून् निहन्तुं समुपस्थितः। रावणिं निजघानाशु सारथिं च हयानपि
इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः। अङ्गदेन महाकायस्तत्रैवान्तरधीयत
तत् कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः। तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि। ततस्ते तं महात्मानं दृष्ट्वा तुष्टाः प्रधर्षितम्
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः। साधुसाध्विति नेदुश्च दृष्ट्वा शत्रुं पराजितम्
इन्द्रजित् तु तदानेन निर्जितो भीमकर्मणा। संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम्
सोऽन्तर्धानगतः पापो रावणी रणकर्शितः। ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्च्छितः
अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः। रामं च लक्ष्मणं चैव घोरैर्नागमयैः शरैः
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः। मायया संवृतस्तत्र मोहयन् राघवौ युधि
अदृश्यः सर्वभूतानां कूटयोधी निशाचरः। बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः। सहसाभिहतौ वीरौ तदा प्रेक्षन्त वानराः
प्रकाशरूपस्तु यदा न शक्त- स्तौ बाधितुं राक्षसराजपुत्रः। मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ दुरात्मा
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुश्चत्वारिंशः सर्गः
thumb|पञ्चचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चचत्वारिंशः सर्गः ॥६-
स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान्। दिदेशातिबलो रामो दश वानरयूथपान्
द्वौ सुषेणस्य दायादौ नीलं च प्लवगाधिपम्। अङ्गदं वालिपुत्रं च शरभं च तरस्विनम्
द्विविदं च हनूमन्तं सानुप्रस्थं महाबलम्। ऋषभं चर्षभस्कन्धमादिदेश परंतपः
ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान्। आकाशं विविशुः सर्वे मार्गमाणा दिशो दश
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः। अस्त्रवित् परमास्त्रस्तु वारयामास रावणिः
तं भीमवेगा हरयो नाराचैः क्षतविक्षताः। अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम्
रामलक्ष्मणयोरेव सर्वदेहभिदः शरान्। भृशमावेशयामास रावणिः समितिंजयः
निरन्तरशरीरौ तु तावुभौ रामलक्ष्मणौ। क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु। तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः। रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत्
युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः। द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम्
प्रापिताविषुजालेन राघवौ कङ्कपत्रिणा। एष रोषपरीतात्मा नयामि यमसादनम्
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ। निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः। भूय एव शरान् घोरान् विससर्ज महामृधे
ततो मर्मसु मर्मज्ञो मज्जयन् निशितान् शरान्। रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः