कारणैर्बहुभी राजन् न दास्ये शबलां तव। वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः। हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान्
ददामि कुञ्जराणां ते सहस्राणि चतुर्दश। हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्
ददामि ते शतान्यष्टौ किंकिणीकविभूषितान्। हयानां देशजातानां कुलजानां महौजसाम्। सहस्रमेकं दश च ददामि तव सुव्रत
नानावर्णविभक्तानां वयःस्थानां तथैव च। ददाम्येकां गवां कोटिं शबला दीयतां मम
यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम। तावद् ददामि ते सर्वं दीयतां शबला मम
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता। न दास्यामीति शबलां प्राह राजन् कथंचन
एतदेव हि मे रत्नमेतदेव हि मे धनम्। एतदेव हि सर्वस्वमेतदेव हि जीवितम्
दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः। एतदेव हि मे राजन् विविधाश्च क्रियास्तथा
अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम्
thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत
नीयमाना तु शबला राम राज्ञा महात्मना। दुःखिता चिन्तयामास रुदन्ती शोककर्शिता
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याहं राजभृतैर्दीना ह्रियेय भृशदुःखिता
किं मयापकृतं तस्य महर्षेर्भावितात्मनः। यन्मामनागसं दृष्ट्वा भक्तां त्यजति धार्मिकः
इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः। जगाम वेगेन तदा वसिष्ठं परमौजसम्
निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन। जगामानिलवेगेन पादमूलं महात्मनः
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्। वसिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत। यस्माद् राजभटा मां हि नयन्ते त्वत्सकाशतः
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसंतप्तहृदयां स्वसारमिव दुःखिताम्
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलान्मत्तो महाबलः
नहि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः। बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च
इयमक्षौहिणी पूर्णा गजवाजिरथाकुला। हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्। वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम्
न बलं क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः। ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम्
अप्रमेयं बलं तुभ्यं न त्वया बलवत्तरः। विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्
नियुङ्क्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम्। तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः
इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः। सृजस्वेति तदोवाच बलं परबलार्दनम्
तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा। तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः। स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः