ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे। राममेवाभ्यवर्तन्त संहृष्टाः शरवृष्टिभिः
तेषामापततां शब्दः क्रुद्धानामपि गर्जताम्। उद्वर्त इव सप्तानां समुद्राणामभूत् स्वनः
तेषां रामः शरैः षड्भिः षड् जघान निशाचरान्। निमेषान्तरमात्रेण शरैरग्निशिखोपमैः
यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ। वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ
ते तु रामेण बाणौघैः सर्वमर्मसु ताडिताः। युद्धादपसृतास्तत्र सावशेषायुषोऽभवन्
निमेषान्तरमात्रेण घोरैरग्निशिखोपमैः। दिशश्चकार विमलाः प्रदिशश्च महारथः
ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः। तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम्
सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः समन्ततः। बभूव रजनी चित्रा खद्योतैरिव शारदी
राक्षसानां च निनदैर्भेरीणां चैव निःस्वनैः। सा बभूव निशा घोरा भूयो घोरतराभवत्
तेन शब्देन महता प्रवृद्धेन समन्ततः। त्रिकूटः कंदराकीर्णः प्रव्याहरदिवाचलः
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः। सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान्
अङ्गदस्तु रणे शत्रून् निहन्तुं समुपस्थितः। रावणिं निजघानाशु सारथिं च हयानपि
इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः। अङ्गदेन महाकायस्तत्रैवान्तरधीयत
तत् कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः। तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि। ततस्ते तं महात्मानं दृष्ट्वा तुष्टाः प्रधर्षितम्
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः। साधुसाध्विति नेदुश्च दृष्ट्वा शत्रुं पराजितम्
इन्द्रजित् तु तदानेन निर्जितो भीमकर्मणा। संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम्
सोऽन्तर्धानगतः पापो रावणी रणकर्शितः। ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्च्छितः
अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः। रामं च लक्ष्मणं चैव घोरैर्नागमयैः शरैः
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः। मायया संवृतस्तत्र मोहयन् राघवौ युधि
अदृश्यः सर्वभूतानां कूटयोधी निशाचरः। बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः। सहसाभिहतौ वीरौ तदा प्रेक्षन्त वानराः
प्रकाशरूपस्तु यदा न शक्त- स्तौ बाधितुं राक्षसराजपुत्रः। मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ दुरात्मा
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुश्चत्वारिंशः सर्गः
thumb|पञ्चचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चचत्वारिंशः सर्गः ॥६-
स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान्। दिदेशातिबलो रामो दश वानरयूथपान्
द्वौ सुषेणस्य दायादौ नीलं च प्लवगाधिपम्। अङ्गदं वालिपुत्रं च शरभं च तरस्विनम्
द्विविदं च हनूमन्तं सानुप्रस्थं महाबलम्। ऋषभं चर्षभस्कन्धमादिदेश परंतपः
ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान्। आकाशं विविशुः सर्वे मार्गमाणा दिशो दश
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः। अस्त्रवित् परमास्त्रस्तु वारयामास रावणिः