द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे। शरैरशनिसंकाशैः स विव्याधाशनिप्रभः
स शरैरभिविद्धाङ्गो द्विविदः क्रोधर्मूच्छितः। सालेन सरथं साश्वं निजघानाशनिप्रभम्
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः। सुषेणं ताडयामास ननाद च मुहुर्मुहुः
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः। गिरिशृङ्गेण महता रथमाशु न्यपातयत्
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः। अपक्रम्य रथात् तूर्णं गदापाणिः क्षितौ स्थितः
ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः। शिलां सुमहतीं गृह्य निशाचरमभिद्रवत्
तमापतन्तं गदया विद्युन्माली निशाचरः। वक्षस्यभिजघानाशु सुषेणं हरिपुङ्गवम्
गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः। तां तूष्णीं पातयामास तस्योरसि महामृधे
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः। निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः। द्वन्द्वे विमथितास्तत्र दैत्या इव दिवौकसैः
भल्लैश्चान्यैर्गदाभिश्च शक्तितोमरसायकैः। अपविद्धैश्चापि रथैस्तथा सांग्रामिकैर्हयैः
निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः। चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः
बभूवायोधनं घोरं गोमायुगणसेवितम्। कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम्। विमर्दे तुमुले तस्मिन् देवासुररणोपमे
निहन्यमाना हरिपुङ्गवैस्तदा निशाचराः शोणितगन्धमूर्च्छिताः। पुनः सुयुद्धं तरसा समाश्रिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः
thumb|चतुश्चत्वारिंशः सर्गः श्रूयताम्|center ०४४ इन्द्रजिता अदृश्यरूपेण युद्धरङ्गागमनम् Your browser does not support the audio element, but here is (श्रीराम-हरिसीताराममूर्ति-घनपाठिभ्यां वचनम्) युध्यतामेव तेषां तु तदा वानररक्षसाम्। रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी
अन्योन्यं बद्धवैराणां घोराणं जयमिच्छताम्। सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम्
राक्षसोऽसीति हरयो वानरोऽसीति राक्षसाः। अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे
हत दारय चैहीति कथं विद्रवसीति च। एवं सुतुमुलः शब्दस्तस्मिन् सैन्ये तु शुश्रुवे
कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः। सम्प्रदृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूिर्च्छताः। परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान्
ते हयान् काञ्चनापीडान् ध्वजांश्चाशीविषोपमान्। आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन्
वानरा बलिनो युद्धेऽक्षोभयन् राक्षसीं चमूम्। कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान्
चकर्षुश्च ददंशुश्च दशनैः क्रोधमूिर्च्छताः। लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः। तुरंगखुरविध्वस्तं रथनेमिसमुत्थितम्
रुरोध कर्णनेत्राणि युध्यतां धरणीरजः। वर्तमाने तथा घोरे संग्रामे लोमहर्षणे। रुधिरौघा महाघोरा नद्यस्तत्र विसुस्रुवुः
ततो भेरीमृदङ्गानां पणवानां च निःस्वनः। शङ्खनेमिस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः
हतानां स्तनमानानां राक्षसानां च निःस्वनः। शस्तानां वानराणां च सम्बभूवात्र दारुणः
हतैर्वानरमुख्यैश्च शक्तिशूलपरश्वधैः। निहतैः पर्वताकारै राक्षसैः कामरूपिभिः
शस्त्रपुष्पोपहारा च तत्रासीद् युद्धमेदिनी। दुर्ज्ञेया दुर्निवेशा च शोणितास्त्रावकर्दमा
सा बभूव निशा घोरा हरिराक्षसहारिणी। कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा