निर्ययू राक्षसा वीरा नादयन्तो दिशो दश। राक्षसा भीमकर्माणो रावणस्य जयैषिणः
वानराणामपि चमूर्बृहती जयमिच्छताम्। अभ्यधावत तां सेनां रक्षसां घोरकर्मणाम्
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्। रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत
अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः। अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः
प्रजङ्घेन च सम्पातिर्नित्यं दुर्धर्षणो रणे। जम्बुमालिनमारब्धो हनूमानपि वानरः
संगतस्तु महाक्रोधो राक्षसो रावणानुजः। समरे तीक्ष्णवेगेन शत्रुघ्नेन विभीषणः
तपनेन गजः सार्धं राक्षसेन महाबलः। निकुम्भेन महातेजा नीलोऽपि समयुध्यत
वानरेन्द्रस्तु सुग्रीवः प्रघसेन सुसंगतः। संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः
अग्निकेतुः सुदुर्धर्षो रश्मिकेतुश्च राक्षसः। सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः
वज्रमुष्टिश्च मैन्देन द्विविदेनाशनिप्रभः। राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः। समरे तीक्ष्णवेगेन नलेन समयुध्यत
धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः। स विद्युन्मालिना सार्धमयुध्यत महाकपिः
वानराश्चापरे घोरा राक्षसैरपरैः सह। द्वन्द्वं समीयुः सहसा युद्ध्वा च बहुभिः सह
तत्रासीत् सुमहद् युद्धं तुमुलं रोमहर्षणम्। रक्षसां वानराणां च वीराणां जयमिच्छताम्
हरिराक्षसदेहेभ्यः प्रभूताः केशशाद्वलाः। शरीरसंघाटवहाः प्रसुस्रुः शोणतापगाः
आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः। अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्। जघान गदया श्रीमानङ्गदो वेगवान् हरिः
सम्पातिस्तु प्रजङ्घेन त्रिभिर्बाणैः समाहतः। निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि
जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः। बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे
तस्य तं रथमास्थाय हनूमान् मारुतात्मजः। प्रममाथ तलेनाशु सह तेनैव रक्षसा
नदन् प्रतपनो घोरो नलं सोऽभ्यनुधावत। नलः प्रतपनस्याशु पातयामास चक्षुषी
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा। ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः
सुग्रीवः सप्तपर्णेन निजघान जवेन च। प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम्
निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः। अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः
तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः। क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे। पपात सरथः साश्वः पुराट्ट इव भूतले
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम्। निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान्
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः। बिभेद समरे नीलं निकुम्भः प्रजहास च
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे। शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः
वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम्। जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम्