गजानां बृंहितैः सार्धं हयानां ह्रेषितैरपि। रथानां नेमिनिर्घोषै रक्षसां वदनस्वनैः
एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत। रक्षसां वानराणां च यथा देवासुरे पुरा
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः। निजघ्नुर्वानरान् सर्वान् कथयन्तः स्वविक्रमान्
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः। निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिनः
राजा जयति सुग्रीव इति शब्दो महानभूत्। राजञ्जयजयेत्युक्त्वा स्वस्वनामकथां ततः
राक्षसास्त्वपरे भीमाः प्राकारस्था महीं गतान्। वानरान् भिन्दिपालैश्च शूलैश्चैव व्यदारयन्
वानराश्चापि संक्रुद्धाः प्राकारस्थान् महीं गताः। राक्षसान् पातयामासुः खमाप्लुत्य स्वबाहुभिः
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः। रक्षसां वानराणां च सम्बभूवाद्भुतोपमः
thumb|त्रिचत्वारिंशः सर्गः श्रूयताम्|center युध्यतां तु ततस्तेषां वानराणां महात्मनाम्। रक्षसां सम्बभूवाथ बलरोषः सुदारुणः
ते हयैः काञ्चनापीडैर्गजैश्चाग्निशिखोपमैः। रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः
निर्ययू राक्षसा वीरा नादयन्तो दिशो दश। राक्षसा भीमकर्माणो रावणस्य जयैषिणः
वानराणामपि चमूर्बृहती जयमिच्छताम्। अभ्यधावत तां सेनां रक्षसां घोरकर्मणाम्
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्। रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत
अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः। अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः
प्रजङ्घेन च सम्पातिर्नित्यं दुर्धर्षणो रणे। जम्बुमालिनमारब्धो हनूमानपि वानरः
संगतस्तु महाक्रोधो राक्षसो रावणानुजः। समरे तीक्ष्णवेगेन शत्रुघ्नेन विभीषणः
तपनेन गजः सार्धं राक्षसेन महाबलः। निकुम्भेन महातेजा नीलोऽपि समयुध्यत
वानरेन्द्रस्तु सुग्रीवः प्रघसेन सुसंगतः। संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः
अग्निकेतुः सुदुर्धर्षो रश्मिकेतुश्च राक्षसः। सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः
वज्रमुष्टिश्च मैन्देन द्विविदेनाशनिप्रभः। राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः। समरे तीक्ष्णवेगेन नलेन समयुध्यत
धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः। स विद्युन्मालिना सार्धमयुध्यत महाकपिः
वानराश्चापरे घोरा राक्षसैरपरैः सह। द्वन्द्वं समीयुः सहसा युद्ध्वा च बहुभिः सह
तत्रासीत् सुमहद् युद्धं तुमुलं रोमहर्षणम्। रक्षसां वानराणां च वीराणां जयमिच्छताम्
हरिराक्षसदेहेभ्यः प्रभूताः केशशाद्वलाः। शरीरसंघाटवहाः प्रसुस्रुः शोणतापगाः
आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः। अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्। जघान गदया श्रीमानङ्गदो वेगवान् हरिः
सम्पातिस्तु प्रजङ्घेन त्रिभिर्बाणैः समाहतः। निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि
जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः। बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे
तस्य तं रथमास्थाय हनूमान् मारुतात्मजः। प्रममाथ तलेनाशु सह तेनैव रक्षसा