जयत्युरुबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः। अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः
वीरबाहुः सुबाहुश्च नलश्च पनसस्तथा। निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः। एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम्
पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः। आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः
सहायार्थे तु तस्यैव निविष्टः प्रघसो हरिः। पनसश्च महाबाहुर्वानरैरभिसंवृतः
दक्षिणद्वारमासाद्य वीरः शतबलिः कपिः। आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः
सुषेणः पश्चिमद्वारं गत्वा तारापिता बली। आवृत्य बलवांस्तस्थौ कोटिकोटिभिरावृतः
उत्तरद्वारमागम्य रामः सौमित्रिणा सह। आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शना। वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः
ऋक्षाणां भीमकोपानां धूम्रः शत्रुनिबर्हणः। वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः
संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः। वृतो यत्तैस्तु सचिवैस्तस्थौ यत्र महाबलः
गजो गवाक्षो गवयः शरभो गन्धमादनः। समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम्
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः। निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत् तदा
एतच्छ्रुत्वा तदा वाक्यं रावणस्य मुखेरितम्। सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः
ततः प्रबोधिता भेर्यश्चन्द्रपाण्डुरपुष्कराः। हेमकोणैरभिहता राक्षसानां समन्ततः
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः। राक्षसानां सुघोराणां मुखमारुतपूरिताः
ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः। विद्युन्मण्डलसंनद्धाः सबलाका इवाम्बुदाः
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः। समये पूर्यमाणस्य वेगा इव महोदधेः
ततो वानरसैन्येन मुक्तो नादः समन्ततः। मलयः पूरितो येन ससानुप्रस्थकन्दरः
शङ्खदुन्दुभिनिर्घोषः सिंहनादस्तरस्विनाम्। पृथिवीं चान्तरिक्षं च सागरं चाभ्यनादयत्
गजानां बृंहितैः सार्धं हयानां ह्रेषितैरपि। रथानां नेमिनिर्घोषै रक्षसां वदनस्वनैः
एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत। रक्षसां वानराणां च यथा देवासुरे पुरा
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः। निजघ्नुर्वानरान् सर्वान् कथयन्तः स्वविक्रमान्
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः। निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिनः
राजा जयति सुग्रीव इति शब्दो महानभूत्। राजञ्जयजयेत्युक्त्वा स्वस्वनामकथां ततः
राक्षसास्त्वपरे भीमाः प्राकारस्था महीं गतान्। वानरान् भिन्दिपालैश्च शूलैश्चैव व्यदारयन्
वानराश्चापि संक्रुद्धाः प्राकारस्थान् महीं गताः। राक्षसान् पातयामासुः खमाप्लुत्य स्वबाहुभिः
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः। रक्षसां वानराणां च सम्बभूवाद्भुतोपमः
thumb|त्रिचत्वारिंशः सर्गः श्रूयताम्|center युध्यतां तु ततस्तेषां वानराणां महात्मनाम्। रक्षसां सम्बभूवाथ बलरोषः सुदारुणः
ते हयैः काञ्चनापीडैर्गजैश्चाग्निशिखोपमैः। रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः