विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत्। सान्तःपुरवरो राजा सब्राह्मणपुरोहितः
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्
पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद
गवां शतसहस्रेण दीयतां शबला मम। रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज। एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्। नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्
राजन् दास्यामि शबलां राशिभी रजतस्य वा। न परित्यागमर्हेयं मत्सकाशादरिंदम
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा। अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च। स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः। सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा
कारणैर्बहुभी राजन् न दास्ये शबलां तव। वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः। हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान्
ददामि कुञ्जराणां ते सहस्राणि चतुर्दश। हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्
ददामि ते शतान्यष्टौ किंकिणीकविभूषितान्। हयानां देशजातानां कुलजानां महौजसाम्। सहस्रमेकं दश च ददामि तव सुव्रत
नानावर्णविभक्तानां वयःस्थानां तथैव च। ददाम्येकां गवां कोटिं शबला दीयतां मम
यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम। तावद् ददामि ते सर्वं दीयतां शबला मम
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता। न दास्यामीति शबलां प्राह राजन् कथंचन
एतदेव हि मे रत्नमेतदेव हि मे धनम्। एतदेव हि सर्वस्वमेतदेव हि जीवितम्
दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः। एतदेव हि मे राजन् विविधाश्च क्रियास्तथा
अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम्
thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत
नीयमाना तु शबला राम राज्ञा महात्मना। दुःखिता चिन्तयामास रुदन्ती शोककर्शिता
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याहं राजभृतैर्दीना ह्रियेय भृशदुःखिता
किं मयापकृतं तस्य महर्षेर्भावितात्मनः। यन्मामनागसं दृष्ट्वा भक्तां त्यजति धार्मिकः
इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः। जगाम वेगेन तदा वसिष्ठं परमौजसम्
निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन। जगामानिलवेगेन पादमूलं महात्मनः
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्। वसिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत। यस्माद् राजभटा मां हि नयन्ते त्वत्सकाशतः
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसंतप्तहृदयां स्वसारमिव दुःखिताम्