तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजयोधाः। प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः
thumb|द्विचत्वारिंशः सर्गः श्रूयताम्|center ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम्। न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः। विधानं द्विगुणं कृत्वा प्रासादं चाप्यरोहत
स ददर्श वृतां लङ्कां सशैलवनकाननाम्। असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः
स दृष्ट्वा वानरैः सर्वैर्वसुधां कपिलीकृताम्। कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत्
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः। राघवं हरियूथांश्च ददर्शायतलोचनः
राघवः सह सैन्येन मुदितो नाम पुप्लुवे। लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम्
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्। जगाम सहसा सीतां दूयमानेन चेतसा
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा। पीड्यते शोकसंतप्ता कृशा स्थण्डिलशायिनी
निपीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन्। क्षिप्रमाज्ञापयद् रामो वानरान् द्विषतां वधे
एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा। संघर्षमाणाः प्लवगाः सिंहनादैरनादयन्
शिखरैर्विकिरामैतां लङ्कां मुष्टिभिरेव वा। इति स्म दधिरे सर्वे मनांसि हरियूथपाः
उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च। तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः। राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः। लङ्कामेवाभ्यवर्तन्त सालभूधरयोधिनः
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाः। प्राकाराग्राण्यसंख्यानि ममन्थुस्तोरणानि च
परिखान् पूरयन्तश्च प्रसन्नसलिलाशयान्। पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः। कोटियूथशताश्चान्ये लङ्कामारुरुहुस्तदा
काञ्चनानि प्रमर्दन्तस्तोरणानि प्लवंगमाः। कैलासशिखराग्राणि गोपुराणि प्रमथ्य च
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। लङ्कां तामभिधावन्ति महावारणसंनिभाः
जयत्युरुबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः। अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः
वीरबाहुः सुबाहुश्च नलश्च पनसस्तथा। निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः। एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम्
पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः। आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः
सहायार्थे तु तस्यैव निविष्टः प्रघसो हरिः। पनसश्च महाबाहुर्वानरैरभिसंवृतः
दक्षिणद्वारमासाद्य वीरः शतबलिः कपिः। आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः
सुषेणः पश्चिमद्वारं गत्वा तारापिता बली। आवृत्य बलवांस्तस्थौ कोटिकोटिभिरावृतः
उत्तरद्वारमागम्य रामः सौमित्रिणा सह। आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शना। वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः
ऋक्षाणां भीमकोपानां धूम्रः शत्रुनिबर्हणः। वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः