पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः। पुरा हिमवतः शृङ्गं वज्रेणेव विदारितम्
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः। विनद्य सुमहानादमुत्पपात विहायसा
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान्। स वानराणां मध्ये तु रामपार्श्वमुपागतः
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात्। विनाशं चात्मनः पश्यन् निःश्वासपरमोऽभवत्
रामस्तु बहुभिर्हृष्टैर्विनदद्भिः प्लवङ्गमैः। वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः। बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः
स तु द्वाराणि संयम्य सुग्रीववचनात् कपिः। पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम्। लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम्
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे। अपरे समरे हर्षाद्धर्षमेवोपपेदिरे
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम्। ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्। हाहाकारमकुर्वन्त राक्षसा भयमागताः
तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजयोधाः। प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः
thumb|द्विचत्वारिंशः सर्गः श्रूयताम्|center ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम्। न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः। विधानं द्विगुणं कृत्वा प्रासादं चाप्यरोहत
स ददर्श वृतां लङ्कां सशैलवनकाननाम्। असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः
स दृष्ट्वा वानरैः सर्वैर्वसुधां कपिलीकृताम्। कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत्
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः। राघवं हरियूथांश्च ददर्शायतलोचनः
राघवः सह सैन्येन मुदितो नाम पुप्लुवे। लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम्
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्। जगाम सहसा सीतां दूयमानेन चेतसा
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा। पीड्यते शोकसंतप्ता कृशा स्थण्डिलशायिनी
निपीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन्। क्षिप्रमाज्ञापयद् रामो वानरान् द्विषतां वधे
एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा। संघर्षमाणाः प्लवगाः सिंहनादैरनादयन्
शिखरैर्विकिरामैतां लङ्कां मुष्टिभिरेव वा। इति स्म दधिरे सर्वे मनांसि हरियूथपाः
उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च। तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः। राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः। लङ्कामेवाभ्यवर्तन्त सालभूधरयोधिनः
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाः। प्राकाराग्राण्यसंख्यानि ममन्थुस्तोरणानि च
परिखान् पूरयन्तश्च प्रसन्नसलिलाशयान्। पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः। कोटियूथशताश्चान्ये लङ्कामारुरुहुस्तदा
काञ्चनानि प्रमर्दन्तस्तोरणानि प्लवंगमाः। कैलासशिखराग्राणि गोपुराणि प्रमथ्य च
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। लङ्कां तामभिधावन्ति महावारणसंनिभाः