आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् । विभीषणस्यानुमते राजधर्ममनुस्मरन्
अङ्गदं वालितनयं समाहूयेदमब्रवीत्। गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः। भ्रष्टश्रीकं गतैश्वर्यं मुमूर्षानष्टचेतनम्
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा। नागानामथ यक्षाणां राज्ञां च रजनीचर
यच्च पापं कृतं मोहादवलिप्तेन राक्षस। नूनं ते विगतो दर्पः स्वयंभूवरदानजः। तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरासदा
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः। दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः
पदवीं देवतानां च महर्षीणां च राक्षस। राजर्षीणां च सर्वेषां गमिष्यसि युधि स्थिरः
बलेन येन वै सीतां मायया राक्षसाधम। मामतिक्रमयित्वा त्वं हृतवांस्तन्निदर्शय
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः। न चेच्छरणमभ्येषि तामादाय तु मैथिलीम्
धर्मात्मा राक्षसश्रेष्ठः सम्प्राप्तोऽयं विभीषणः। लङ्कैश्वर्यमिदं श्रीमान् ध्रुवं प्राप्नोत्यकण्टकम्
नहि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया। शक्यं मूर्खसहायेन पापेनाविदितात्मना
युध्यस्व मा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस। मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि
यद्याविशसि लोकांस्त्रीन् पक्षीभूतो निशाचर। मम चक्षुःपथं प्राप्य न जीवन् प्रतियास्यसि
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेहिकम्। सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा। जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट्
सोऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम्। ददर्शासीनमव्यग्रं रावणं सचिवैः सह
ततस्तस्याविदूरेण निपत्य हरिपुंगवः। दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः
तद् रामवचनं सर्वमन्यूनाधिकमुत्तमम्। सामात्यं श्रावयामास निवेद्यात्मानमात्मना
दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः। निष्पत्य प्रतियुध्यस्व नृशंस पुरुषो भव
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम्। निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्। शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम्
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि। न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे। अमर्षवशमापन्नो निशाचरगणेश्वरः
ततः स रोषमापन्नः शशास सचिवांस्तदा। गृह्यतामिति दुर्मेधा वध्यतामिति चासकृत्
रावणस्य वचः श्रुत्वा दीप्ताग्निमिव तेजसा। जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः
ग्राहयामास तारेयः स्वयमात्मानमात्मवान्। बलं दर्शयितुं वीरो यातुधानगणे तदा
स तान् बाहुद्वयासक्तानादाय पतगानिव। प्रासादं शैलसंकाशमुत्पपाताङ्गदस्तदा
तस्योत्पतनवेगेन निर्धूतास्तत्र राक्षसाः। भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम्। चक्राम राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान्