अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान्। अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः
ऋषभेण गवाक्षेण गजेन गवयेन च। हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः
प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च संगतः। मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत
सह सर्वैर्हरिश्रेष्ठैः सुपर्णपवनोपमैः। वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः। शासनेन तु रामस्य लक्ष्मणः सविभीषणः
द्वारे द्वारे हरीणां तु कोटिं कोटीर्न्यवेशयत्। पश्चिमेन तु रामस्य सुषेणः सहजाम्बवान्
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः। ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः। गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः। सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः
दशनागबलाः केचित् केचिद् दशगुणोत्तराः। केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः। अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः। तत्र वानरसैन्यानां शलभानामिवोद्गमः
परिपूर्णमिवाकाशं सम्पूर्णेव च मेदिनी। लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः
शतं शतसहस्राणां पृतनर्क्षवनौकसाम्। लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः। अयुतानां सहस्रं च पुरीं तामभ्यवर्तत
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः। सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना
राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः। वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः
महाञ्छब्दोऽभवत् तत्र बलौघस्याभिवर्ततः। सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः
तेन शब्देन महता सप्राकारा सतोरणा। लङ्का प्रचलिता सर्वा सशैलवनकानना
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी। बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः
राघवः संनिवेश्यैवं स्वसैन्यं रक्षसां वधे। सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् । विभीषणस्यानुमते राजधर्ममनुस्मरन्
अङ्गदं वालितनयं समाहूयेदमब्रवीत्। गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः। भ्रष्टश्रीकं गतैश्वर्यं मुमूर्षानष्टचेतनम्
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा। नागानामथ यक्षाणां राज्ञां च रजनीचर
यच्च पापं कृतं मोहादवलिप्तेन राक्षस। नूनं ते विगतो दर्पः स्वयंभूवरदानजः। तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरासदा
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः। दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः
पदवीं देवतानां च महर्षीणां च राक्षस। राजर्षीणां च सर्वेषां गमिष्यसि युधि स्थिरः
बलेन येन वै सीतां मायया राक्षसाधम। मामतिक्रमयित्वा त्वं हृतवांस्तन्निदर्शय
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः। न चेच्छरणमभ्येषि तामादाय तु मैथिलीम्
धर्मात्मा राक्षसश्रेष्ठः सम्प्राप्तोऽयं विभीषणः। लङ्कैश्वर्यमिदं श्रीमान् ध्रुवं प्राप्नोत्यकण्टकम्