शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्। जगृहुः कुञ्जरप्रख्या वानराः परवारणाः
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ। रावणस्य पुरीं लङ्कामासेदतुररिंदमौ
पताकामालिनीं रम्यामुद्यानवनशोभिताम्। चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम्
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः। यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः
लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम्। रामः सहानुजो धन्वी जुगोप च रुरोध च
लङ्कामुपनिविष्टस्तु रामो दशरथात्मजः। लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः। नान्यो रामाद्धि तद् द्वारं समर्थः परिरक्षितुम्
रावणाधिष्ठितं भीमं वरुणेनेव सागरम्। सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः
लघूनां त्रासजननं पातालमिव दानवैः। विन्यस्तानि च योधानां बहूनि विविधानि च
ददर्शायुधजालानि तथैव कवचानि च। पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः
अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान्। अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः
ऋषभेण गवाक्षेण गजेन गवयेन च। हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः
प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च संगतः। मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत
सह सर्वैर्हरिश्रेष्ठैः सुपर्णपवनोपमैः। वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः। शासनेन तु रामस्य लक्ष्मणः सविभीषणः
द्वारे द्वारे हरीणां तु कोटिं कोटीर्न्यवेशयत्। पश्चिमेन तु रामस्य सुषेणः सहजाम्बवान्
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः। ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः। गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः। सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः
दशनागबलाः केचित् केचिद् दशगुणोत्तराः। केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः। अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः। तत्र वानरसैन्यानां शलभानामिवोद्गमः
परिपूर्णमिवाकाशं सम्पूर्णेव च मेदिनी। लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः
शतं शतसहस्राणां पृतनर्क्षवनौकसाम्। लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः। अयुतानां सहस्रं च पुरीं तामभ्यवर्तत
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः। सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना
राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः। वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः
महाञ्छब्दोऽभवत् तत्र बलौघस्याभिवर्ततः। सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः
तेन शब्देन महता सप्राकारा सतोरणा। लङ्का प्रचलिता सर्वा सशैलवनकानना
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी। बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः
राघवः संनिवेश्यैवं स्वसैन्यं रक्षसां वधे। सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः