तव भार्यापहर्तारं दृष्ट्वा राघव रावणम्। मर्षयामि कथं वीर जानन् विक्रममात्मनः
इत्येवं वादिनं वीरमभिनन्द्य च राघवः। लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत्
परिगृह्योदकं शीतं वनानि फलवन्ति च। बलौघं संविभज्येमं व्यूह्य तिष्ठाम लक्ष्मण
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्। निबर्हणं प्रवीराणामृक्षवानररक्षसाम्
वाता हि परुषं वान्ति कम्पते च वसुंधरा। पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वराः। क्रूराः क्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभिः
रक्तचन्दनसंकाशा संध्या परमदारुणा। ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम्
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम्। दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः
रजन्यामप्रकाशश्च संतापयति चन्द्रमाः। कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः। आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते। युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च। शिवाश्चाप्यशुभा वाचः प्रवदन्ति महास्वनाः
शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः। भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा
क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम्। अभियाम जवेनैव सर्वतो हरिभिर्वृताः
इत्येवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः। तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः
अवतीर्य तु धर्मात्मा तस्माच्छैलात् स राघवः। परैः परमदुर्धर्षं ददर्श बलमात्मनः
संनह्य तु ससुग्रीवः कपिराजबलं महत्। कालज्ञो राघवः काले संयुगायाभ्यचोदयत्
ततः काले महाबाहुर्बलेन महता वृतः। प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम्
तं विभीषणसुग्रीवौ हनूमाञ्जाम्बवान् नलः। ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम्। प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम्
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्। जगृहुः कुञ्जरप्रख्या वानराः परवारणाः
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ। रावणस्य पुरीं लङ्कामासेदतुररिंदमौ
पताकामालिनीं रम्यामुद्यानवनशोभिताम्। चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम्
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः। यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः
लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम्। रामः सहानुजो धन्वी जुगोप च रुरोध च
लङ्कामुपनिविष्टस्तु रामो दशरथात्मजः। लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः। नान्यो रामाद्धि तद् द्वारं समर्थः परिरक्षितुम्
रावणाधिष्ठितं भीमं वरुणेनेव सागरम्। सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः
लघूनां त्रासजननं पातालमिव दानवैः। विन्यस्तानि च योधानां बहूनि विविधानि च
ददर्शायुधजालानि तथैव कवचानि च। पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः