शार्दूलसिंहाविव जातदंष्ट्रौ गजेन्द्रपोताविव सम्प्रयुक्तौ। संहत्य संवेद्य च तौ कराभ्यां तौ पेततुर्वै युगपद् धरायाम्
उद्यम्य चान्योन्यमधिक्षिपन्तौ संचक्रमाते बहु युद्धमार्गे। व्यायामशिक्षाबलसम्प्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ
बाहूत्तमैर्वारणवारणाभै- र्निवारयन्तौ परवारणाभौ। चिरेण कालेन भृशं प्रयुद्धौ संचेरतुर्मण्डलमार्गमाशु
तौ परस्परमासाद्य यत्तावन्योन्यसूदने। मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः
मण्डलानि विचित्राणि स्थानानि विविधानि च। गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च
तिरश्चीनगतान्येव तथा वक्रगतानि च। परिमोक्षं प्रहाराणां वर्जनं परिधावनम्
अभिद्रवणमाप्लावमवस्थानं सविग्रहम्। परावृत्तमपावृत्तमपद्रुतमवप्लुतम्
उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ। तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः। आरब्धुमुपसम्पेदे ज्ञात्वा तं वानराधिपः
उत्पपात तदाऽऽकाशं जितकाशी जितक्लमः। रावणः स्थित एवात्र हरिराजेन वञ्चितः
अथ हरिवरनाथः प्राप्तसंग्रामकीर्ति- र्निशिचरपतिमाजौ योजयित्वा श्रमेण। गगनमतिविशालं लङ्घयित्वार्कसूनु- र्हरिगणबलमध्ये रामपार्श्वं जगाम
इति स सवितृसूनुस्तत्र तत् कर्म कृत्वा पवनगतिरनीकं प्राविशत् सम्प्रहृष्टः। रघुवरनृपसूनोर्वर्धयन् युद्धहर्षं तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः
thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः। सुग्रीवं सम्परिष्वज्य रामो वचनमब्रवीत्
असम्मन्त्र्य मया सार्धं तदिदं साहसं कृतम्। एवं साहसयुक्तानि न कुर्वन्ति जनेश्वराः
संशये स्थाप्य मां चेदं बलं चेमं विभीषणम्। कष्टं कृतमिदं वीर साहसं साहसप्रिय
इदानीं मा कृथा वीर एवंविधमरिंदम। त्वयि किंचित्समापन्ने किं कार्यं सीतया मम
भरतेन महाबाहो लक्ष्मणेन यवीयसा। शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः। जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम
हत्वाहं रावणं युद्धे सपुत्रबलवाहनम्। अभिषिच्य च लङ्कायां विभीषणमथापि च
भरते राज्यमारोप्य त्यक्ष्ये देहं महाबल। तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम्। मर्षयामि कथं वीर जानन् विक्रममात्मनः
इत्येवं वादिनं वीरमभिनन्द्य च राघवः। लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत्
परिगृह्योदकं शीतं वनानि फलवन्ति च। बलौघं संविभज्येमं व्यूह्य तिष्ठाम लक्ष्मण
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्। निबर्हणं प्रवीराणामृक्षवानररक्षसाम्
वाता हि परुषं वान्ति कम्पते च वसुंधरा। पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वराः। क्रूराः क्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभिः
रक्तचन्दनसंकाशा संध्या परमदारुणा। ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम्
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम्। दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः
रजन्यामप्रकाशश्च संतापयति चन्द्रमाः। कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः। आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते