शतयोजनविस्तीर्णं विमलं चारुदर्शनम्। श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि
मनसापि दुरारोहं किं पुनः कर्मणा जनैः। निविष्टा तस्य शिखरे लङ्का रावणपालिता
दशयोजनविस्तीर्णा विंशद्योजनमायता। सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः। काञ्चनेन च शालेन राजतेन च शोभते
प्रासादैश्च विमानैश्च लङ्का परमभूषिता। घनैरिवातपापाये मध्यमं वैष्णवं पदम्
यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः। कैलासशिखराकारो दृश्यते खमिवोल्लिखन्
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्। शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते
मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम्। नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम्
नानाविहगसंघुष्टां नानामृगनिषेविताम्। नानाकुसुमसम्पन्नां नानाराक्षससेविताम्
तां समृद्धां समृद्धार्थां लक्ष्मीवाँल्लक्ष्मणाग्रजः। रावणस्य पुरीं रामो ददर्श सह वानरैः
तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः। नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान्
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलंकृतां च। पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चत्वारिंशः सर्गः ॥६-
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम्। उपारोहत् ससुग्रीवो हरियूथैः समन्वितः
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन्। त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम्। तस्य गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम्
श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम्। रक्तचन्दनसंलिप्तं रत्नाभरणभूषितम्
नीलजीमूतसंकाशं हेमसंछादिताम्बरम्। ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्
शशलोहितरागेण संवीतं रक्तवाससा। संध्यातपेन संछन्नं मेघराशिमिवाम्बरे
पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः। दर्शनाद् राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः
क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च। अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना। तृणीकृत्य च तद् रक्षः सोऽब्रवीत् परुषं वचः
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस। न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा
इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि। आकृष्य मुकुटं चित्रं पातयामास तद् भुवि
समीक्ष्य तूर्णमायान्तं बभाषे तं निशाचरः। सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत् तले। कन्दुवत् स समुत्थाय बाहुभ्यामाक्षिपद्धरिः
परस्परं स्वेदविदिग्धगात्रौ परस्परं शोणितरक्तदेहौ। परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकाविव
मुष्टिप्रहारैश्च तलप्रहारै- ररत्निघातैश्च कराग्रघातैः। तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ राक्षसवानरेन्द्रौ
कृत्वा नियुद्धं भृशमुग्रवेगौ कालं चिरं गोपुरवेदिमध्ये। उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ पादक्रमाद् गोपुरवेदिलग्नौ
अन्योन्यमापीड्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये। उत्पेततुर्भूमितलं स्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ
आलिङ्ग्य चालिङ्ग्य च बाहुयोक्त्रैः संयोजयामासतुराहवे तौ। संरम्भशिक्षाबलसम्प्रयुक्तौ सुचेरतुः सम्प्रति युद्धमार्गैः