तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम्। वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्
दात्यूहकोयष्टिबकैर्नृत्यमानैश्च बर्हिणैः। रुतं परभृतानां च शुश्रुवे वननिर्झरे
नित्यमत्तविहंगानि भ्रमराचरितानि च। कोकिलाकुलखण्डानि विहंगाभिरुतानि च
भृङ्गराजाधिगीतानि कुररस्वनितानि च। कोणालकविघुष्टानि सारसाभिरुतानि च। विविशुस्ते ततस्तानि वनान्युपवनानि च
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः। तेषां प्रविशतां तत्र वानराणां महौजसाम्
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः। अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः। सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्
वित्रासयन्तो विहगान् ग्लापयन्तो मृगद्विपान्। कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः
कुर्वन्तस्ते महावेगा महीं चरणपीडिताम्। रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम्
ऋक्षाः सिंहाश्च महिषा वारणाश्च मृगाः खगाः। तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्। समन्तात् पुष्पसंछन्नं महारजतसंनिभम्
शतयोजनविस्तीर्णं विमलं चारुदर्शनम्। श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि
मनसापि दुरारोहं किं पुनः कर्मणा जनैः। निविष्टा तस्य शिखरे लङ्का रावणपालिता
दशयोजनविस्तीर्णा विंशद्योजनमायता। सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः। काञ्चनेन च शालेन राजतेन च शोभते
प्रासादैश्च विमानैश्च लङ्का परमभूषिता। घनैरिवातपापाये मध्यमं वैष्णवं पदम्
यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः। कैलासशिखराकारो दृश्यते खमिवोल्लिखन्
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्। शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते
मनोज्ञां काञ्चनवतीं पर्वतैरुपशोभिताम्। नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम्
नानाविहगसंघुष्टां नानामृगनिषेविताम्। नानाकुसुमसम्पन्नां नानाराक्षससेविताम्
तां समृद्धां समृद्धार्थां लक्ष्मीवाँल्लक्ष्मणाग्रजः। रावणस्य पुरीं रामो ददर्श सह वानरैः
तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः। नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान्
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलंकृतां च। पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चत्वारिंशः सर्गः ॥६-
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम्। उपारोहत् ससुग्रीवो हरियूथैः समन्वितः
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन्। त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम्। तस्य गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम्
श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम्। रक्तचन्दनसंलिप्तं रत्नाभरणभूषितम्
नीलजीमूतसंकाशं हेमसंछादिताम्बरम्। ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्
शशलोहितरागेण संवीतं रक्तवाससा। संध्यातपेन संछन्नं मेघराशिमिवाम्बरे
पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः। दर्शनाद् राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः
क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च। अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले