स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम्। सुवेलारोहणे बुद्धिं चकार मतिमान् प्रभुः। रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम्
thumb|अष्टात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टात्रिंशः सर्गः ॥६-
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति। लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्। मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा
सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम्। अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः। येन मे मरणान्ताय हृता भार्या दुरात्मना
येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा। राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम्
तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे। यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम्
एको हि कुरुते पापं कालपाशवशं गतः। नीचेनात्मापचारेण कुलं तेन विनश्यति
एवं सम्मन्त्रयन् नेव सक्रोधो रावणं प्रति। रामः सुवेलं वासाय चित्रसानुमुपारुहत्
पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत् समाहितः। सशरं चापमुद्यम्य सुमहद्विक्रमे रतः
तमन्वारोहत् सुग्रीवः सामात्यः सविभीषणः। हनुमानङ्गदो नीलो मैन्दो द्विविद एव च
गजो गवाक्षो गवयः शरभो गन्धमादनः। पनसः कुमुदश्चैव हरो रम्भश्च यूथपः
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः। दुर्मुखश्च महातेजास्तथा शतवलिः कपिः
एते चान्ये च बहवो वानराः शीघ्रगामिनः। ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः
अध्यारोहन्त शतशः सुवेलं यत्र राघवः। ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्। तां शुभां प्रवरद्वारां प्राकारवरशोभिताम्
लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः। प्राकारवरसंस्थैश्च तथा नीलैश्च राक्षसैः
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्
ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः। मुमुचुर्विविधान् नादांस्तस्य रामस्य पश्यतः
ततोऽस्तमगमत् सूर्यः संध्यया प्रतिरञ्जितः। पूर्णचन्द्रप्रदीप्ता च क्षपा समतिवर्तत
ततः स रामो हरिवाहिनीपति- र्विभीषणेन प्रतिनन्द्य सत्कृतः। सलक्ष्मणो यूथपयूथसंयुतः सुवेलपृष्ठे न्यवसद् यथासुखम्
thumb|एकोनचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनचत्वारिंशः सर्गः ॥६-
तां रात्रिमुषितास्तत्र सुवेले हरियूथपाः। लङ्कायां ददृशुर्वीरा वनान्युपवनानि च
समसौम्यानि रम्याणि विशालान्यायतानि च। दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः
चम्पकाशोकबकुलशालतालसमाकुला। तमालवनसंछन्ना नागमालासमावृता
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैः सुपुष्पितैः। तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः। लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः। शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः
गन्धाढ्यान्यतिरम्याणि पुष्पाणि च फलानि च। धारयन्त्यगमास्तत्र भूषणानीव मानवाः