सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्। विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम्
कृत्वा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा। मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्
ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन। विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल। तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे
सत्क्रियां हि भवानेतां प्रतीच्छतु मया कृताम्। राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः
एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः। कृतमित्यब्रवीद् राजा पूजावाक्येन मे त्वया
फलमूलेन भगवन् विद्यते यत् तवाश्रमे। पाद्येनाचमनीयेन भगवद्दर्शनेन च
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः। नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा
एवं ब्रुवन्तं राजानं वसिष्ठं पुनरेव हि। न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः
बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह। यथाप्रियं भगवतस्तथास्तु मुनिपुंगव
एवमुक्तस्तथा तेन वसिष्ठो जपतां वरः। आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषाम्
एह्येहि शबले क्षिप्रं शृणु चापि वचो मम। सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्। भोजनेन महार्हेण सत्कारं संविधत्स्व मे
यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्। तत् सर्वं कामधुग् दिव्ये अभिवर्ष कृते मम
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्। अन्नानां निचयं सर्वं सृजस्व शबले त्वर
thumb| त्रिपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-
एवमुक्ता वसिष्ठेन शबला शत्रुसूदन। विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा
इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्। पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि
उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च
नानास्वादुरसानां च खाण्डवानां तथैव च। भोजनानि सुपूर्णानि गौडानि च सहस्रशः
सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम्। विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम्
विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत्। सान्तःपुरवरो राजा सब्राह्मणपुरोहितः
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्
पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद
गवां शतसहस्रेण दीयतां शबला मम। रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज। एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्। नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्
राजन् दास्यामि शबलां राशिभी रजतस्य वा। न परित्यागमर्हेयं मत्सकाशादरिंदम
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा। अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च। स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः। सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा