पूर्वद्वारं तु लङ्काया नीलो वानरपुङ्गवः। प्रहस्तं प्रतियोद्धा स्याद् वानरैर्बहुभिर्वृतः
अङ्गदो वालिपुत्रस्तु बलेन महता वृतः। दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ
हनूमान् पश्चिमद्वारं निष्पीड्य पवनात्मजः। प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः
दैत्यदानवसङ्घानामृषीणां च महात्मनाम्। विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः
परिक्रमति यः सर्वान् लोकान् संतापयन् प्रजाः। तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः
उत्तरं नगरद्वारमहं सौमित्रिणा सह। निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः
वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान्। राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे
न चैव मानुषं रूपं कार्यं हरिभिराहवे। एषा भवतु नः संज्ञा युद्धेऽस्मिन् वानरे बले
वानरा एव नश्चिह्नं स्वजनेऽस्मिन् भविष्यति। वयं तु मानुषेणैव सप्त योत्स्यामहे परान्
अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा। आत्मना पञ्चमश्चायं सखा मम विभीषणः
स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम्। सुवेलारोहणे बुद्धिं चकार मतिमान् प्रभुः। रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम्
thumb|अष्टात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टात्रिंशः सर्गः ॥६-
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति। लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्। मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा
सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम्। अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः। येन मे मरणान्ताय हृता भार्या दुरात्मना
येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा। राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम्
तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे। यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम्
एको हि कुरुते पापं कालपाशवशं गतः। नीचेनात्मापचारेण कुलं तेन विनश्यति
एवं सम्मन्त्रयन् नेव सक्रोधो रावणं प्रति। रामः सुवेलं वासाय चित्रसानुमुपारुहत्
पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत् समाहितः। सशरं चापमुद्यम्य सुमहद्विक्रमे रतः
तमन्वारोहत् सुग्रीवः सामात्यः सविभीषणः। हनुमानङ्गदो नीलो मैन्दो द्विविद एव च
गजो गवाक्षो गवयः शरभो गन्धमादनः। पनसः कुमुदश्चैव हरो रम्भश्च यूथपः
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः। दुर्मुखश्च महातेजास्तथा शतवलिः कपिः
एते चान्ये च बहवो वानराः शीघ्रगामिनः। ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः
अध्यारोहन्त शतशः सुवेलं यत्र राघवः। ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्। तां शुभां प्रवरद्वारां प्राकारवरशोभिताम्
लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः। प्राकारवरसंस्थैश्च तथा नीलैश्च राक्षसैः
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्
ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः। मुमुचुर्विविधान् नादांस्तस्य रामस्य पश्यतः