गजानां दशसाहस्रं रथानामयुतं तथा। हयानामयुते द्वे च साग्रकोटिश्च रक्षसाम्
विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः। इष्टा राक्षसराजस्य नित्यमेते निशाचराः
एकैकस्यात्र युद्धार्थे राक्षसस्य विशाम्पते। परीवारः सहस्राणां सहस्रमुपतिष्ठते
एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तां विभीषणः। एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत्
लङ्कायां सचिवैः सर्वं रामाय प्रत्यवेदयत्। रामं कमलपत्राक्षमिदमुत्तरमब्रवीत्
रावणावरजः श्रीमान् रामप्रियचिकीर्षया। कुबेरं तु यदा राम रावणः प्रतियुद्ध्यति
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः। पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्। सदृशा ह्यत्र दर्पेण रावणस्य दुरात्मनः
अत्र मन्युर्न कर्तव्यः कोपये त्वां न भीषये। समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे
तद्भवांश्चतुरङ्गेण बलेन महता वृतम्। व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम्
रावणावरजे वाक्यमेवं ब्रुवति राघवः। शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत्
पूर्वद्वारं तु लङ्काया नीलो वानरपुङ्गवः। प्रहस्तं प्रतियोद्धा स्याद् वानरैर्बहुभिर्वृतः
अङ्गदो वालिपुत्रस्तु बलेन महता वृतः। दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ
हनूमान् पश्चिमद्वारं निष्पीड्य पवनात्मजः। प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः
दैत्यदानवसङ्घानामृषीणां च महात्मनाम्। विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः
परिक्रमति यः सर्वान् लोकान् संतापयन् प्रजाः। तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः
उत्तरं नगरद्वारमहं सौमित्रिणा सह। निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः
वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान्। राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे
न चैव मानुषं रूपं कार्यं हरिभिराहवे। एषा भवतु नः संज्ञा युद्धेऽस्मिन् वानरे बले
वानरा एव नश्चिह्नं स्वजनेऽस्मिन् भविष्यति। वयं तु मानुषेणैव सप्त योत्स्यामहे परान्
अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा। आत्मना पञ्चमश्चायं सखा मम विभीषणः
स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम्। सुवेलारोहणे बुद्धिं चकार मतिमान् प्रभुः। रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम्
thumb|अष्टात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टात्रिंशः सर्गः ॥६-
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति। लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्। मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा
सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम्। अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः। येन मे मरणान्ताय हृता भार्या दुरात्मना
येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा। राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम्
तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे। यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम्
एको हि कुरुते पापं कालपाशवशं गतः। नीचेनात्मापचारेण कुलं तेन विनश्यति
एवं सम्मन्त्रयन् नेव सक्रोधो रावणं प्रति। रामः सुवेलं वासाय चित्रसानुमुपारुहत्