वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्। पश्य कैश्चिदहोभिश्च राघवं निहतं मया
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे। स कस्माद् रावणो युद्धे भयमाहारयिष्यति
द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्। एष मे सहजो दोषः स्वभावो दुरतिक्रमः
यदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया। रामेण विस्मयः कोऽत्र येन ते भयमागतम्
स तु तीर्त्वार्णवं रामः सह वानरसेनया। प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्। व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत
जयाशिषा तु राजानं वर्धयित्वा यथोचितम्। माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम्
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च। लङ्कायास्तु तदा गुप्तिं कारयामास राक्षसः
व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसम्। दक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ
पश्चिमायामथ द्वारि पुत्रमिन्द्रजितं तदा। व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम्
उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ। स्वयं चात्र गमिष्यामि मन्त्रिणस्तानुवाच ह
राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्। मध्यमेऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः
एवं विधानं लङ्कायां कृत्वा राक्षसपुंगवः। कृतकृत्यमिवात्मानं मन्यते कालचोदितः
विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम्। जयाशिषा मन्त्रिगणेन पूजितो विवेश सोऽन्तःपुरमृद्धिमन्महत्
thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-
नरवानरराजानौ स तु वायुसुतः कपिः। जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः
अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः। सुषेणः सहदायादो मैन्दो द्विविद एव च
गजो गवाक्षः कुमुदो नलोऽथ पनसस्तथा। अमित्रविषयं प्राप्ताः समवेताः समर्थयन्
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता। सासुरोरगगन्धर्वैरमरैरपि दुर्जया
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये। नित्यं संनिहितो यत्र रावणो राक्षसाधिपः
अथ तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्। वाक्यमग्राम्यपदवत् पुष्कलार्थं विभीषणः
अनलः पनसश्चैव सम्पातिः प्रमतिस्तथा। गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः
भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम्। विधानं विहितं यच्च तद् दृष्ट्वा समुपस्थिताः
संविधानं यथाहुस्ते रावणस्य दुरात्मनः। राम तद् ब्रुवतः सर्वं याथातथ्येन मे शृणु
पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति। दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ
इन्द्रजित् पश्चिमं द्वारं राक्षसैर्बहुभिर्वृतः। पट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः
नानाप्रहरणैः शूरैरावृतो रावणात्मजः। राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः
युक्तः परमसंविग्नो राक्षसैः सह मन्त्रवित्। उत्तरं नगरद्वारं रावणः स्वयमास्थितः
विरूपाक्षस्तु महता शूलखड्गधनुष्मता। बलेन राक्षसैः सार्धं मध्यमं गुल्ममाश्रितः
एतानेवं विधान् गुल्माँल्लङ्कायां समुदीक्ष्य ते। मामका मन्त्रिणः सर्वे शीघ्रं पुनरिहागताः