तत् तु माल्यवतो वाक्यं हितमुक्तं दशाननः। न मर्षयति दुष्टात्मा कालस्य वशमागतः
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः। अमर्षात् परिवृत्ताक्षो माल्यवन्तमथाब्रवीत्
हितबुद्ध्या यदहितं वचः परुषमुच्यते। परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम
मानुषं कृपणं राममेकं शाखामृगाश्रयम्। समर्थं मन्यसे केन त्यक्तं पित्रा वनाश्रयम्
रक्षसामीश्वरं मां च देवानां च भयंकरम्। हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः। त्वयाहं परुषाण्युक्तो परप्रोत्साहनेन वा
प्रभवन्तं पदस्थं हि परुषं कोऽभिभाषते। पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनेन वा
आनीय च वनात् सीतां पद्महीनामिव श्रियम्। किमर्थं प्रतिदास्यामि राघवस्य भयादहम्
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्। पश्य कैश्चिदहोभिश्च राघवं निहतं मया
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे। स कस्माद् रावणो युद्धे भयमाहारयिष्यति
द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्। एष मे सहजो दोषः स्वभावो दुरतिक्रमः
यदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया। रामेण विस्मयः कोऽत्र येन ते भयमागतम्
स तु तीर्त्वार्णवं रामः सह वानरसेनया। प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्। व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत
जयाशिषा तु राजानं वर्धयित्वा यथोचितम्। माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम्
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च। लङ्कायास्तु तदा गुप्तिं कारयामास राक्षसः
व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसम्। दक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ
पश्चिमायामथ द्वारि पुत्रमिन्द्रजितं तदा। व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम्
उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ। स्वयं चात्र गमिष्यामि मन्त्रिणस्तानुवाच ह
राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्। मध्यमेऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः
एवं विधानं लङ्कायां कृत्वा राक्षसपुंगवः। कृतकृत्यमिवात्मानं मन्यते कालचोदितः
विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम्। जयाशिषा मन्त्रिगणेन पूजितो विवेश सोऽन्तःपुरमृद्धिमन्महत्
thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-
नरवानरराजानौ स तु वायुसुतः कपिः। जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः
अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः। सुषेणः सहदायादो मैन्दो द्विविद एव च
गजो गवाक्षः कुमुदो नलोऽथ पनसस्तथा। अमित्रविषयं प्राप्ताः समवेताः समर्थयन्
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता। सासुरोरगगन्धर्वैरमरैरपि दुर्जया
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये। नित्यं संनिहितो यत्र रावणो राक्षसाधिपः
अथ तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्। वाक्यमग्राम्यपदवत् पुष्कलार्थं विभीषणः
अनलः पनसश्चैव सम्पातिः प्रमतिस्तथा। गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः