रुदतां वाहनानां च प्रपतन्त्यश्रुबिन्दवः। रजोध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम्
व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम्। प्रविश्य लङ्कामारामे समवायांश्च कुर्वते
कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः। स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते। खरा गोषु प्रजायन्ते मूषका नकुलेषु च
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह। किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः। राक्षसानां विनाशाय कपोता विचरन्ति च
चीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः। पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिभिः
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति ते। करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः
कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते। एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च
येन बद्धः समुद्रे च सेतुः स परमाद्भुतः। कुरुष्व नरराजेन संधिं रामेण रावण। ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम्
इदं वचस्तस्य निगद्य माल्यवान् परीक्ष्य रक्षोधिपतेर्मनः पुनः। अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम्
thumb|षट्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-
तत् तु माल्यवतो वाक्यं हितमुक्तं दशाननः। न मर्षयति दुष्टात्मा कालस्य वशमागतः
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः। अमर्षात् परिवृत्ताक्षो माल्यवन्तमथाब्रवीत्
हितबुद्ध्या यदहितं वचः परुषमुच्यते। परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम
मानुषं कृपणं राममेकं शाखामृगाश्रयम्। समर्थं मन्यसे केन त्यक्तं पित्रा वनाश्रयम्
रक्षसामीश्वरं मां च देवानां च भयंकरम्। हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः। त्वयाहं परुषाण्युक्तो परप्रोत्साहनेन वा
प्रभवन्तं पदस्थं हि परुषं कोऽभिभाषते। पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनेन वा
आनीय च वनात् सीतां पद्महीनामिव श्रियम्। किमर्थं प्रतिदास्यामि राघवस्य भयादहम्
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्। पश्य कैश्चिदहोभिश्च राघवं निहतं मया
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे। स कस्माद् रावणो युद्धे भयमाहारयिष्यति
द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्। एष मे सहजो दोषः स्वभावो दुरतिक्रमः
यदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया। रामेण विस्मयः कोऽत्र येन ते भयमागतम्
स तु तीर्त्वार्णवं रामः सह वानरसेनया। प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्। व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत
जयाशिषा तु राजानं वर्धयित्वा यथोचितम्। माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम्
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च। लङ्कायास्तु तदा गुप्तिं कारयामास राक्षसः
व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसम्। दक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ
पश्चिमायामथ द्वारि पुत्रमिन्द्रजितं तदा। व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम्