एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः। श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम्
श्रुत्वा तु तं वानरसैन्यनादं लङ्कागता राक्षसराजभृत्याः। हतौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषात्
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥६-
तेन शङ्खविमिश्रेण भेरीशब्देन नादिना। उपयाति महाबाहू रामः परपुरंजयः
तं निनादं निशम्याथ रावणो राक्षसेश्वरः। मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत
अथ तान् सचिवांस्तत्र सर्वानाभाष्य रावणः। सभां संनादयन् सर्वामित्युवाच महाबलः
जगत्संतापनः क्रूरोऽगर्हयन् राक्षसेश्वरः। तरणं सागरस्यास्य विक्रमं बलपौरुषम्
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम्। भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान्। तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम्
ततस्तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः। रावणस्य वचः श्रुत्वा इति मातामहोऽब्रवीत्
विद्यास्वभिविनीतो यो राजा राजन् नयानुगः। स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे
संदधानो हि कालेन विगृह्णंश्चारिभिः सह। स्वपक्षे वर्धनं कुर्वन्महदैश्वर्यमश्नुते
हीयमानेन कर्तव्यो राज्ञा संधिः समेन च। न शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम्
तन्मह्यं रोचते संधिः सह रामेण रावण। यदर्थमभियुक्तोऽसि सीता तस्मै प्रदीयताम्
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः। विरोधं मा गमस्तेन संधिस्ते तेन रोचताम्
असृजद् भगवान् पक्षौ द्वावेव हि पितामहः। सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ
धर्मो हि श्रूयते पक्ष अमराणां महात्मनाम्। अधर्मो रक्षसां पक्षो ह्यसुराणां च राक्षस
धर्मो वै ग्रसतेऽधर्मं यदा कृतमभूद् युगम्। अधर्मो ग्रसते धर्मं यदा तिष्यः प्रवर्तते
तत् त्वया चरता लोकान् धर्मोऽपि निहतो महान्। अधर्मः प्रगृहीतश्च तेनास्मद् बलिनः परे
स प्रमादात् प्रवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः। विवर्धयति पक्षं च सुराणां सुरभावनः
विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया। ऋषीणामग्निकल्पानामुद्वेगो जनितो महान्
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः। तपसा भावितात्मानो धर्मस्यानुग्रहे रताः
मुख्यैर्यज्ञैर्यजन्त्येते तैस्तैर्यत्ते द्विजातयः। जुह्वत्यग्नींश्च विधिवद् वेदांश्चोच्चैरधीयते
अभिभूय च रक्षांसि ब्रह्मघोषानुदीरयन्। दिशो विप्रद्रुताः सर्वाः स्तनयित्नुरिवोष्णगे
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः। आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश
तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः। चर्यमाणं तपस्तीव्रं संतापयति राक्षसान्
देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया। मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः। बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः
उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधान् बहून्। विनाशमनुपश्यामि सर्वेषां रक्षसामहम्
खराभिस्तनिता घोरा मेघाः प्रतिभयंकराः। शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः
रुदतां वाहनानां च प्रपतन्त्यश्रुबिन्दवः। रजोध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम्
व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम्। प्रविश्य लङ्कामारामे समवायांश्च कुर्वते