सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः। पुनरेवागमत् क्षिप्रमशोकवनिकां शुभाम्
सा प्रविष्टा ततस्तत्र ददर्श जनकात्मजाम्। प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम्
तां तु सीता पुनः प्राप्तां सरमां प्रियभाषिणीम्। परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम्
इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः। क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः
एवमुक्ता तु सरमा सीतया वेपमानया। कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः
जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः। अतिस्निग्धेन वैदेहि मन्त्रिवृद्धेन चोदितः
दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली। निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम्
लङ्घनं च समुद्रस्य दर्शनं च हनूमतः। वधं च रक्षसां युद्धे कः कुर्यान्मानुषो युधि
एवं स मन्त्रवृद्धैश्च मात्रा च बहुबोधितः। न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा
नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि। सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते
तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता। भयान्न शक्तस्त्वां मोक्तुमनिरस्तः स संयुगे
राक्षसानां च सर्वेषामात्मनश्च वधेन हि। निहत्य रावणं संख्ये सर्वथा निशितैः शरैः। प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे
एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः। श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम्
श्रुत्वा तु तं वानरसैन्यनादं लङ्कागता राक्षसराजभृत्याः। हतौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषात्
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥६-
तेन शङ्खविमिश्रेण भेरीशब्देन नादिना। उपयाति महाबाहू रामः परपुरंजयः
तं निनादं निशम्याथ रावणो राक्षसेश्वरः। मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत
अथ तान् सचिवांस्तत्र सर्वानाभाष्य रावणः। सभां संनादयन् सर्वामित्युवाच महाबलः
जगत्संतापनः क्रूरोऽगर्हयन् राक्षसेश्वरः। तरणं सागरस्यास्य विक्रमं बलपौरुषम्
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम्। भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान्। तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम्
ततस्तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः। रावणस्य वचः श्रुत्वा इति मातामहोऽब्रवीत्
विद्यास्वभिविनीतो यो राजा राजन् नयानुगः। स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे
संदधानो हि कालेन विगृह्णंश्चारिभिः सह। स्वपक्षे वर्धनं कुर्वन्महदैश्वर्यमश्नुते
हीयमानेन कर्तव्यो राज्ञा संधिः समेन च। न शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम्
तन्मह्यं रोचते संधिः सह रामेण रावण। यदर्थमभियुक्तोऽसि सीता तस्मै प्रदीयताम्
तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः। विरोधं मा गमस्तेन संधिस्ते तेन रोचताम्
असृजद् भगवान् पक्षौ द्वावेव हि पितामहः। सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ
धर्मो हि श्रूयते पक्ष अमराणां महात्मनाम्। अधर्मो रक्षसां पक्षो ह्यसुराणां च राक्षस
धर्मो वै ग्रसतेऽधर्मं यदा कृतमभूद् युगम्। अधर्मो ग्रसते धर्मं यदा तिष्यः प्रवर्तते
तत् त्वया चरता लोकान् धर्मोऽपि निहतो महान्। अधर्मः प्रगृहीतश्च तेनास्मद् बलिनः परे