अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम्। धृतामेकां बहून् मासान् वेणीं रामो महाबलः
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम्। मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी
रावणं समरे हत्वा नचिरादेव मैथिलि। त्वया समग्रः प्रियया सुखार्हो लप्स्यते सुखम्
सभाजिता त्वं रामेण मोदिष्यसि महात्मना। सुवर्षेण समायुक्ता यथा सस्येन मेदिनी
गिरिवरमभितो विवर्तमानो हय इव मण्डलमाशु यः करोति। तमिह शरणमभ्युपैहि देवि दिवसकरं प्रभवो ह्ययं प्रजानाम्
thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥६-
अथ तां जातसंतापां तेन वाक्येन मोहिताम्। सरमा ह्लादयामास महीं दग्धामिवाम्भसा
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः। उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे। निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम्
नहि मे क्रममाणाया निरालम्बे विहायसि। समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा
एवं ब्रुवाणां तां सीता सरमामिदमब्रवीत्। मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया
समर्था गगनं गन्तुमपि च त्वं रसातलम्। अवगच्छाद्य कर्तव्यं कर्तव्यं ते मदन्तरे
मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव। ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः
स हि मायाबलः क्रूरो रावणः शत्रुरावणः। मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी
तर्जापयति मां नित्यं भर्त्सापयति चासकृत्। राक्षसीभिः सुघोराभिर्यो मां रक्षति नित्यशः
उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम। तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता
यदि नाम कथा तस्य निश्चितं वापि यद्भवेत्। निवेदयेथाः सर्वं तद् वरो मे स्यादनुग्रहः
साप्येवं ब्रुवतीं सीतां सरमा मृदुभाषिणी। उवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लवम्
एष ते यद्यभिप्रायस्तस्माद् गच्छामि जानकि। गृह्य शत्रोरभिप्रायमुपावर्तामि मैथिलि
एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः। शुश्राव कथितं तस्य रावणस्य समन्त्रिणः
सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः। पुनरेवागमत् क्षिप्रमशोकवनिकां शुभाम्
सा प्रविष्टा ततस्तत्र ददर्श जनकात्मजाम्। प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम्
तां तु सीता पुनः प्राप्तां सरमां प्रियभाषिणीम्। परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम्
इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः। क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः
एवमुक्ता तु सरमा सीतया वेपमानया। कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः
जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः। अतिस्निग्धेन वैदेहि मन्त्रिवृद्धेन चोदितः
दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली। निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम्
लङ्घनं च समुद्रस्य दर्शनं च हनूमतः। वधं च रक्षसां युद्धे कः कुर्यान्मानुषो युधि
एवं स मन्त्रवृद्धैश्च मात्रा च बहुबोधितः। न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा
नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि। सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते