उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्। सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणम्
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम्। रामः कमलपत्राक्षो दैत्यानामिव वासवः
अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः। रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः। यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः
आगतस्य हि रामस्य क्षिप्रमङ्कागतां सतीम्। अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते
अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम्। धृतामेकां बहून् मासान् वेणीं रामो महाबलः
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम्। मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी
रावणं समरे हत्वा नचिरादेव मैथिलि। त्वया समग्रः प्रियया सुखार्हो लप्स्यते सुखम्
सभाजिता त्वं रामेण मोदिष्यसि महात्मना। सुवर्षेण समायुक्ता यथा सस्येन मेदिनी
गिरिवरमभितो विवर्तमानो हय इव मण्डलमाशु यः करोति। तमिह शरणमभ्युपैहि देवि दिवसकरं प्रभवो ह्ययं प्रजानाम्
thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥६-
अथ तां जातसंतापां तेन वाक्येन मोहिताम्। सरमा ह्लादयामास महीं दग्धामिवाम्भसा
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः। उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे। निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम्
नहि मे क्रममाणाया निरालम्बे विहायसि। समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा
एवं ब्रुवाणां तां सीता सरमामिदमब्रवीत्। मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया
समर्था गगनं गन्तुमपि च त्वं रसातलम्। अवगच्छाद्य कर्तव्यं कर्तव्यं ते मदन्तरे
मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव। ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः
स हि मायाबलः क्रूरो रावणः शत्रुरावणः। मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी
तर्जापयति मां नित्यं भर्त्सापयति चासकृत्। राक्षसीभिः सुघोराभिर्यो मां रक्षति नित्यशः
उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम। तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता
यदि नाम कथा तस्य निश्चितं वापि यद्भवेत्। निवेदयेथाः सर्वं तद् वरो मे स्यादनुग्रहः
साप्येवं ब्रुवतीं सीतां सरमा मृदुभाषिणी। उवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लवम्
एष ते यद्यभिप्रायस्तस्माद् गच्छामि जानकि। गृह्य शत्रोरभिप्रायमुपावर्तामि मैथिलि
एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः। शुश्राव कथितं तस्य रावणस्य समन्त्रिणः
सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः। पुनरेवागमत् क्षिप्रमशोकवनिकां शुभाम्
सा प्रविष्टा ततस्तत्र ददर्श जनकात्मजाम्। प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम्
तां तु सीता पुनः प्राप्तां सरमां प्रियभाषिणीम्। परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम्
इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः। क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः
एवमुक्ता तु सरमा सीतया वेपमानया। कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः