अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना। एवं प्रयुक्ता रौद्रेण माया मायाविना त्वयि
शोकस्ते विगतः सर्वकल्याणं त्वामुपस्थितम्। ध्रुवं त्वां भजते लक्ष्मीः प्रियं ते भवति शृणु
उत्तीर्य सागरं रामः सह वानरसेनया। संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः। सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः
अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः। राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः। एष मन्त्रयते सर्वैः सचिवैः सह रावणः
इति ब्रुवाणा सरमा राक्षसी सीतया सह। सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम्
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्। उवाच सरमा सीतामिदं मधुरभाषिणी
संनाहजननी ह्येषा भैरवा भीरु भेरिका। भेरीनादं च गम्भीरं शृणु तोयदनिःस्वनम्
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः। दृश्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः
तत्र तत्र च संनद्धाः सम्पतन्ति सहस्रशः। आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः
वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः। शस्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा
रथवाजिगजानां च राक्षसेन्द्रानुयायिनाम्। सम्भ्रमो रक्षसामेष हृषितानां तरस्विनाम्
प्रभां विसृजतां पश्य नानावर्णसमुत्थिताम्। वनं निर्दहतो घर्मे यथा रूपं विभावसोः
घण्टानां शृणु निर्घोषं रथानां शृणु निःस्वनम्। हयानां हेषमाणानां शृणु तूर्यध्वनिं तथा
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्। सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणम्
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम्। रामः कमलपत्राक्षो दैत्यानामिव वासवः
अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः। रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः। यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः
आगतस्य हि रामस्य क्षिप्रमङ्कागतां सतीम्। अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते
अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम्। धृतामेकां बहून् मासान् वेणीं रामो महाबलः
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम्। मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी
रावणं समरे हत्वा नचिरादेव मैथिलि। त्वया समग्रः प्रियया सुखार्हो लप्स्यते सुखम्
सभाजिता त्वं रामेण मोदिष्यसि महात्मना। सुवर्षेण समायुक्ता यथा सस्येन मेदिनी
गिरिवरमभितो विवर्तमानो हय इव मण्डलमाशु यः करोति। तमिह शरणमभ्युपैहि देवि दिवसकरं प्रभवो ह्ययं प्रजानाम्
thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥६-
अथ तां जातसंतापां तेन वाक्येन मोहिताम्। सरमा ह्लादयामास महीं दग्धामिवाम्भसा
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः। उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे। निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम्
नहि मे क्रममाणाया निरालम्बे विहायसि। समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा