सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया। रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता
सा ददर्श सखी सीतां सरमा नष्टचेतनाम्। उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु
तां समाश्वासयामास सखीस्नेहेन सुव्रताम्। समाश्वसिहि वैदेहि मा भूत् ते मनसो व्यथा। उक्ता यद् रावणेन त्वं प्रयुक्तश्च स्वयं त्वया
सखीस्नेहेन तद् भीरु मया सर्वं प्रतिश्रुतम्। लीनया गहने शून्ये भयमुत्सृज्य रावणात्। तव हेतोर्विशालाक्षि नहि मे रावणाद् भयम्
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसेश्वरः। तत्र मे विदितं सर्वमभिनिष्क्रम्य मैथिलि
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः। वधश्च पुरुषव्याघ्रे तस्मिन् नैवोपपद्यते
न त्वेवं वानरा हन्तुं शक्याः पादपयोधिनः। सुरा देवर्षभेणेव रामेण हि सुरक्षिताः
दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान्। धन्वी संनहनोपेतो धर्मात्मा भुवि विश्रुतः
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च। लक्ष्मणेन सह भ्रात्रा कुलीनो नयशास्त्रवित्
हन्ता परबलौघानामचिन्त्यबलपौरुषः। न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः
अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना। एवं प्रयुक्ता रौद्रेण माया मायाविना त्वयि
शोकस्ते विगतः सर्वकल्याणं त्वामुपस्थितम्। ध्रुवं त्वां भजते लक्ष्मीः प्रियं ते भवति शृणु
उत्तीर्य सागरं रामः सह वानरसेनया। संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः। सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः
अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः। राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः। एष मन्त्रयते सर्वैः सचिवैः सह रावणः
इति ब्रुवाणा सरमा राक्षसी सीतया सह। सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम्
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्। उवाच सरमा सीतामिदं मधुरभाषिणी
संनाहजननी ह्येषा भैरवा भीरु भेरिका। भेरीनादं च गम्भीरं शृणु तोयदनिःस्वनम्
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः। दृश्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः
तत्र तत्र च संनद्धाः सम्पतन्ति सहस्रशः। आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः
वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः। शस्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा
रथवाजिगजानां च राक्षसेन्द्रानुयायिनाम्। सम्भ्रमो रक्षसामेष हृषितानां तरस्विनाम्
प्रभां विसृजतां पश्य नानावर्णसमुत्थिताम्। वनं निर्दहतो घर्मे यथा रूपं विभावसोः
घण्टानां शृणु निर्घोषं रथानां शृणु निःस्वनम्। हयानां हेषमाणानां शृणु तूर्यध्वनिं तथा
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्। सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणम्
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम्। रामः कमलपत्राक्षो दैत्यानामिव वासवः
अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः। रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः। यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः
आगतस्य हि रामस्य क्षिप्रमङ्कागतां सतीम्। अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते